☰ select

શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वादशोऽध्यायः

श्रीशुक उवाच

कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभः

पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः १

देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः

ततो बलस्थलस्तस्माद्वज्रनाभोऽर्कसम्भवः २

सगणस्तत्सुतस्तस्माद्विधृतिश्चाभवत्सुतः

ततो हिरण्यनाभोऽभूद्योगाचार्यस्तु जैमिनेः ३

शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद्यतः

योगं महोदयमृषिर्हृदयग्रन्थिभेदकम् ४

पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत्

सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ५

सोऽसावास्ते योगसिद्धः कलापग्राममास्थितः

कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः ६

तस्मात्प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः

महस्वांस्तत्सुतस्तस्माद्विश्वबाहुरजायत ७

ततः प्रसेनजित्तस्मात्तक्षको भविता पुनः

ततो बृहद्बलो यस्तु पित्रा ते समरे हतः ८

एते हीक्ष्वाकुभूपाला अतीताः शृण्वनागतान्

बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्र णः ९

ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति

प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपतिः १०

सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान्

प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः ११

भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः

तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित् १२

बृहद्रा जस्तु तस्यापि बर्हिस्तस्मात्कृतञ्जयः

रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः १३

तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः

ततः प्रसेनजित्तस्मात्क्षुद्र को भविता ततः १४

रणको भविता तस्मात्सुरथस्तनयस्ततः

सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः १५

इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति

यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ १६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे इक्ष्वाकुवंशवर्णनं नाम द्वादशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः