home share

પરિશિષ્ટ ૩

पारायणपूजनविधिः।

अथ पारायणपूजनविधिः।

मङ्गलम्

स्वामिनारायणं साक्षाद् अक्षरपुरुषोत्तमम्।

महापूजासमारम्भे नमामि भक्तिभावतः॥

वन्दे श्रीपुरुषोत्तमं च परमं धामाक्षरं ज्ञानदं,

वन्दे प्रागजिभक्तमेवमनघं ब्रह्मस्वरूपं मुदा।

वन्दे यज्ञपुरुषदासचरणं श्रीयोगिराजं तथा,

वन्दे श्रीप्रमुखं महन्तगुणिनं मोक्षाय भक्त्या सदा॥

 

आचमनम्

(જમણા હાથમાં જળ લઈ ત્રણ વાર આચમન કરો.)

१. ॐ अवतारिणे श्रीस्वामिनारायणाय नमः।

२. ॐ श्रीअक्षरपुरुषोत्तमाय नमः।

३. ॐ श्रीब्रह्मस्वरूपगुरुभ्यो नमः।

हस्तप्रक्षालनम्।

(હાથ ધોઈ નાખો.)

शान्तिपाठः

(હવે હાથ જોડી સદા સર્વત્ર અને સર્વ પ્રકારે શાંતિ થાય તે માટે અક્ષરપુરુષોત્તમ મહારાજની પ્રાર્થના કરીએ.)

दिव्यां शान्तिं परां शान्तिं शान्तिं हि शाश्वतीं ध्रुवाम।

तनोतु सहजानन्दः सर्वत्र सर्वथा सदा॥

मन्त्रः –

हरिः ॐ द्यौः शान्तिरन्तरिक्षगूँ शान्तिः पृथिवी, शान्तिरापः शान्तिरोषधयः शान्तिः।

वनस्पतयः शान्तिर्विश्वे देवाः, शान्तिर्ब्रह्म शान्तिः सर्वगूँ शान्तिः शान्तिरेव शान्तिः सा मा, शान्तिरेधि॥

(शुक्लयजुर्वेद: ३६/१७)

मन्त्रः –

यतो यतः समीहसे ततो नोऽअभयङ्कुरु।

शन्नः कुरु प्रजाभ्योऽभयन्नः पशुभ्यः॥

(शुक्लयजुर्वेद: ३६/२२)

मन्त्रः –

विश्वानि देव सवितर्दुरितानि परासुव। यद् भद्रन् तन्नऽआसुव॥

(शुक्लयजुर्वेद: ३०/३)

ॐ शान्तिः। शान्तिः। शान्तिः। सुशान्तिर्भवतु। सर्वारिष्टशान्तिर्भवतु।

 

स्वस्तिवाचनम्

(અક્ષરપુરુષોત્તમ મહારાજને ચાંદલો કરી, યજમાનોના કપાળમાં ચોખા સહિત કુમકુમનો અથવા ચંદનનો ચાંદલો કરો.)

मनसि राजतां स्वस्ति स्वस्ति वचसि कर्मणि।

भूयात् स्वस्तिमयं सर्वं स्वामिनारायण! प्रभो!॥

मन्त्रः –

हरिः ॐ स्वस्ति नऽइन्द्रो वृद्धश्रवाः, स्वस्ति नः पूषा विश्ववेदाः।

स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो, बृहस्पति र्दधातु॥

(शुक्लयजुर्वेद: २५/१९)

मन्त्रः –

भद्रङ्कर्ण्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभि र्यजत्राः।

स्थिरैरङ्गैस्-तुष्टुवागुँसस्तनूभि र्व्यशेमहि देव-हितय्यँदायुः॥

(शुक्लयजुर्वेद: २५/२१)

 

कङ्‍कणबन्धनम्

(અક્ષરપુરુષોત્તમ મહારાજની પ્રસાદીભૂત નાડાછડી યજમાનોના જમણા કાંડે બાંધો.)

दुःखबन्धमपाकर्तुं सुखबन्धाऽऽप्तये पुनः।

धर्मबन्धमयं सूत्रं मणिबन्धे सुबद्ध्यते॥

आज्ञया बद्ध्यसे नूनं निष्ठया बद्ध्यसे तथा।

भक्त्या त्वं बद्ध्यसे नित्यम् अक्षरपुरुषोत्तमे॥

मन्त्रः –

हरि: ॐ यदा बध्नन् दाक्षायणा हिरण्यगूँ शतानीकाय सुमनस्यमानाः।

तन्मऽआबध्नामि शतशारदाया-युष्माञ्जर-दष्टि र्यथासम्॥

(शुक्लयजुर्वेद:३४/५२)

अक्षरपुरुषोत्तमाऽभिवन्दनम्

(જમણા હાથમાં પુષ્પ તથા ચોખા રાખો.)

सर्वान्तर्यामिणं वन्दे सर्वकारणकारणम्।

स्वामिनारायणं दिव्यम् अक्षरपुरुषोत्तमम्॥

सर्वाऽवतारिणं वन्दे दयालुं शान्तिदायकम्।

वन्दे मोक्षकरं नित्यम् अक्षरपुरुषोत्तमम्॥

भक्तिलभ्यमहं वन्दे वन्देऽहं भक्तवत्सलम्।

प्रत्यक्षं मिलितं साक्षाद् अक्षरपुरुषोत्तमम्॥

ब्रह्माऽक्षरं गुरुं वन्दे सहजानन्दधारिणम्।

अक्षतैर्विविधैः पुष्पैर्वन्देऽहं भक्तिभावतः॥

१. ॐ श्रीपरब्रह्मपुरुषोत्तमाय भगवते श्रीस्वामिनारायणाय नमो नमः।

२. ॐ श्रीअक्षरपुरुषोत्तममहाराजाय नमो नमः।

३. ॐ श्रीगुणातीतानन्दस्वामिमहाराजाय नमो नमः।

४. ॐ श्रीभगतजीमहाराजाय नमो नमः।

५. ॐ श्रीशास्त्रिजीमहाराजाय नमो नमः।

६. ॐ श्रीयोगिजीमहाराजाय नमो नमः।

७. ॐ श्रीप्रमुखस्वामिमहाराजाय नमो नमः।

८. ॐ श्रीमहन्तस्वामिमहाराजाय नमो नमः।

९. ॐ श्रीसकलाऽक्षरमुक्तेभ्यो नमो नमः।

अक्षरपुरुषोत्तमाऽभिवन्दनार्थं, सकलाऽक्षरमुक्ताऽभिवन्दनार्थं च गन्धाक्षतपुष्पाणि समर्पयामि। नमस्करोमि।

(પુષ્પ તથા ચોખા અક્ષરપુરુષોત્તમ મહારાજ ઉપર પધરાવો.)

 

प्रधानसङ्कल्पः

हस्ते जलमादाय

(હવે આ પારાયણ પૂજાવિધિનો મુખ્ય સંકલ્પ શરૂ થાય છે, તો સર્વ યજમાનો જમણા હાથમાં જળ રાખે.)

नमः परमात्मने, श्रीस्वामिनारायण-परब्रह्म-पुरुषोत्तमाय तत्सत्। अद्य ब्रह्मणो द्वितीये परार्धे, श्रीश्वेतवाराहकल्पे सप्तमे वैवस्वतमन्वन्तरे, अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे, भूर्लोके जम्बूद्वीपे भरतखण्डे, भारतवर्षे आर्यावर्तान्तर्गत-ब्रह्मावर्तैकदेशे, पुण्यभूमौ __________ राज्ये, __________ नगरे, अस्मिन् __________ महाशुभस्थाने, मासोत्तमे मासे, __________ मासे, [शुक्ले/कृष्णे] पक्षे, शुभपुण्यतिथौ, __________ तिथौ, __________ वासरे, सर्वेषु ग्रहेषु यथायथं, राशिस्थानस्थितेषु सत्सु, भक्तानां नामानि दीयन्ते। साङ्गं सपरिवारं, तत्-तन्-नगर-वास्तव्यानां, __________ नाम्नां भक्तानाम्, अत्र उपस्थितानाम् अनुपस्थितानां च, सर्वेषां सत्सङ्गिनां साधूनां पार्षदानां साधकानां समस्तगुणातीत-मण्डलभक्तानां;

(હવે અહીંથી જે રીતે બોલવામાં આવે તે રીતે બોલો.)

मम तथा च आत्मनः

१. धर्म-अर्थ-काम-मोक्ष-फल-प्राप्ति-अर्थम्

२. अक्षरपुरुषोत्तम-सिद्धान्त-साक्षात्कार-अर्थम्

३. अक्षररूपता-प्राप्ति-पूर्वक-पुरुषोत्तम-सहजानन्द-भक्ति-अर्थम्

४. दासभाव-दिव्यदृष्टि-सुहृद्भाव-आदि-प्राप्ति-अर्थम्

५. परब्रह्म-श्रीस्वामिनारायण-गुरुहरि-श्रीप्रमुखस्वामिमहाराज-प्रकटगुरुहरि-श्रीमहन्तस्वामिमहाराज-प्रसन्नता-प्राप्ति-अर्थम्

६. सर्व-अभिलाष-सिद्धि-अर्थम्

यथाज्ञानेन यथामिलितोपचारद्रव्यैः, [वचनामृत/स्वामीनी वातो...] इति ग्रन्थस्य [एक/द्वि/त्रि/चतुर्/पञ्च/षट्/सप्त]-दिनावधिक-पारायणनिमित्ते श्रीअक्षरपुरुषोत्तममहाराज-पूजन-आख्यं, ग्रन्थपूजन-आख्यं, वक्तृपूजन-आख्यं कर्म, अहं करिष्ये।

(જળ નીચે પધરાવો.)

 

ध्यानम्

(હૃદયમાં બિરાજમાન અક્ષરપુરુષોત્તમ મહારાજનું પૂજામાં આવાહન કરતાં પહેલાં તેમના સ્વરૂપનું ધ્યાન કરો. મનોમન પરબ્રહ્મ સ્વામિનારાયણ તથા પ્રત્યક્ષ ગુરુહરિનું સ્મરણ કરો.)

ध्यायामि परमानन्दम् अक्षरपुरुषोत्तमम्।

दिव्यं दिव्यगुणोपेतं दिव्याभं दिव्यविग्रहम्॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। ध्यायामि मनसा पूजयामि च।

आवाहनं स्थापनं च

(હવે ધામ, ધામી અને મુક્તોનું આવાહન તથા સ્થાપન કરીએ.)

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।

गुणातीताऽक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सांनिध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥

(ડાબા હાથમાં ચોખા રાખી પ્રત્યેક નામના અંતે જમણા હાથે ચોખાના બે દાણા પધરાવો અને સાથે ‘आवाहयामि स्थापयामि’ એમ ઉચ્ચ સ્વરે બોલો.)

१. अवतारिणं परब्रह्म श्रीस्वामिनारायणम् आवाहयामि स्थापयामि।

२. अक्षरब्रह्म श्रीगुणातीतानन्दस्वामिमहाराजम् आ. स्था.

३. ब्रह्मस्वरूप-श्रीभगतजीमहाराजम् आ. स्था.

४. ब्रह्मस्वरूप-श्रीशास्त्रिजीमहाराजम् आ. स्था.

५. ब्रह्मस्वरूप-श्रीयोगिजीमहाराजम् आ. स्था.

६. ब्रह्मस्वरूप-श्रीप्रमुखस्वामिमहाराजम् आ. स्था.

७. प्रकटब्रह्मस्वरूप-श्रीमहन्तस्वामिमाहाराजाय आ. स्था.

८. समस्त-अक्षरमुक्त-गुणातीत-मण्डल-भक्तान् च आ. स्था.

आवाहिताः सर्वे सुप्रतिष्ठिताः भवन्तु। अक्षरपुरुषोत्तममहाराजश्च वरदो भवतु।

 

चन्दनम्

(અક્ષરપુરુષોત્તમ મહારાજ તથા સર્વ મુક્તોને ચંદનના ચાંદલા કરો.)

केसरमिश्रितं शीतम् अर्चनाऽऽनन्ददं मृदु।

चन्दनमर्प्यते भक्त्या ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। चन्दनं समर्पयामि।

(સ્વામિનારાયણ ભગવાનના મહિમાના સ્તોત્ર બોલો. વિવિધ સ્તોત્ર માટે પરિશિષ્ટ ૧ જુઓ.)

अक्षताः

(અક્ષરપુરુષોત્તમ મહારાજ ઉપર ચોખા પધરાવો.)

अखण्डिताक्षताः शुभ्रा अखण्डभक्तये हृदि।

भक्त्या समर्प्यते शुद्धा ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोनमाय नमः। अक्षतान् समर्पयामि।

पुष्पम्

(અક્ષરપુરુષોત્તમ મહારાજ ઉપર પુષ્પ પધરાવો.)

पाटलमुद्‌गरादीनि कर्णिकारं च मल्लिकाः।

अर्प्यन्ते रम्यपुष्पाणि ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। पुष्पाणि समर्पयामि।

 

नीराजनम्

(આરતી પ્રગટાવી, ચંદન-ચોખા-પુષ્પથી પૂજન કરી આરતી ઉતારો.)

ओजस्तेजोमयं भव्यं दिव्यं रूपं तवेक्षितुम्।

दत्तं नीराजनं दीप्तं ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। आरार्तिक्यं समर्पयामि।

(આરતીગાન કરીએ: ‘જય સ્વામિનારાયણ, જય અક્ષરપુરુષોત્તમ...’)

 

प्रार्थनापूर्वकनमस्काराः

(બે હાથ જોડીને અક્ષરપુરુષોત્તમ મહારાજની પ્રાર્થના કરીએ.)

नमस्ते सहजानन्द गुणातीत नमोऽस्तु ते।

नमोऽस्तु गुरवे भक्त्या प्रत्यक्षब्रह्मणे सदा॥

अक्षररूपता यत्र राजते त्वदुपासने।

सदैव दिव्यभावश्च नयनगोचरे त्वयि॥

उत्तमं निर्विकल्पं तं त्वदीयं निश्चयं परम्।

स्थापय सहजानन्द मयि त्वं पुरुषोत्तम॥

भक्तिमेकान्तिकीं देहि त्वयि माहात्म्यमण्डिताम्।

परमां पूरय प्रीतिं मयि ब्रह्मगुणात्मिकाम्॥

तव योगं ब्रह्मयोगं भक्तयोगं च सर्वदा।

देहि मे दिव्यसत्सङ्गं यत्र सुखम् अमायिकम्॥

त्वद्‌दासदासदासानां दासानां दासकिङ्करः।

एवं विलसतां नित्यं दासत्ववैभवो मयि॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। प्रार्थनापूर्वकनमस्कारान् समर्पयामि।

 

विसर्जनम्

(વિસર્જન કરવા જમણા હાથમાં પુષ્પ તથા ચોખા રાખો.)

હે મહારાજ! આપ આપના અક્ષરધામ અને મુક્તમંડળ સહિત, આજે મહાપૂજામાં પધાર્યા છો, તો આ મહાપૂજામાં કાંઈ ભૂલચૂક થઈ હોય તો તે બદલ ક્ષમા યાચું છું, અને હવે આપ અમારા હૃદયાકાશમાં બિરાજમાન થાવ અને ફરી પાછા મહાપૂજામાં વહેલા વહેલા પધારશો.

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।

गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥

समुक्तमण्डलोऽक्षरपुरुषोत्तममहाराजो मदात्मस्थो भवतु। शुभे कर्मणि पुनरागमनम् अस्तु।

(પુષ્પ તથા ચોખા અક્ષરપુરુષોત્તમ મહારાજ ઉપર પધરાવો.)

 

प्रासादिकपुष्पादिस्वीकरणम्

(પૂજાનાં પ્રસાદીભૂત પુષ્પ, અક્ષત અને જળ મસ્તકે ચઢાવીએ.)

जयस्ते सहजानन्द! गुणातीत! जयोऽस्तु ते।

जयस्ते विजयो नित्यं जयो जयो जयो जयः॥

ॐ शान्तिः शान्तिः शान्तिः। सुशान्तिर्भवतु। सर्वारिष्टशान्तिर्भवतु।

इति श्रीस्वामिनारायणमहापूजा समाप्ता।

(ઉચ્ચ સ્વરે જયનાદ કરવો.)

 

पारायण-पूर्णाहुति-संकल्पः

(હવે આ પારાયણની પૂર્ણાહુતિ નિમિત્તે સર્વ યજમાનો જમણા હાથમાં જળ રાખો.)

नमः परमात्मने, ...... (આગળ લખ્યા પ્રમાણે સંકલ્પ બોલવો.)

यथाज्ञानेन यथामिलितोपचारद्रव्यैः, [वचनामृत/स्वामीनी वातो...] इति ग्रन्थस्य [एक/द्वि/त्रि/चतुर्/पञ्च/षट्/सप्त]-दिनावधिक-पारायण-पूर्णाहुति-निमित्ते श्रीअक्षरपुरुषोत्तममहाराजपूजन-आख्यं, ग्रन्थपूजन-आख्यं, वक्तृपूजन-आख्यं कर्म, अहं करिष्ये।

(જળ નીચે પધરાવો.)

 

પારાયણવિધિની સામગ્રી

 

  • ચંદન પાવડર
  • ચોખા – ૨૫૦ ગ્રામ (કોરા)
  • પુષ્પો – ગુલાબ, હજારી વગેરે
  • કંકુ – ૨૫ ગ્રામ
  • સોપારી – ૫ નંગ
  • નાગરવેલનાં પાન – ૧૦ નંગ
  • નાડાછડી – ૨ દડી
  • નાળિયેર – ૧ નંગ
  • ઓલ-ઇન-વન મૂર્તિ (all-in-one murti)
  • અગરબત્તી – ૧ પેકેટ
  • દિવેટ – ૧૫ નંગ
  • દીવાસળીની પેટી – ૩ નંગ
  • આરતી, દીવો, કાચની ચીમની
  • મીણબત્તી – ૧ પેકેટ
  • શંખ, ઘંટડી
  • તાંબાના તથા સ્ટીલનો લોટો – ૧ નંગ
  • થાળી – ૫ નંગ
  • વાટકી – ૫ નંગ
  • ચમચી – ૧૦ નંગ
  • બાજોઠ – ૧ નંગ

SECTION

પ્રકાશકીય

શ્રી મહાપૂજા

मङ्गलम्

आचमनम्

प्राणायामः

शान्तिपाठः

स्वस्तिवाचनम्

कङ्‌कणबन्धनम्

अक्षरपुरुषोत्तमाऽभिवन्दनम्

प्रधानसङ्कल्पः

दिग्रक्षणम्

कलशोपस्थापनम्

मार्जनम्

दीपादि-उपस्थापनम्

श्रीस्वामिनारायणपूजनम्

न्यासविधिः

संकल्पः

ध्यानम्

आवाहनं स्थापनं च

आसनम्

पाद्यम्

अर्घ्यम्

आचमनीयम्

स्नानम्

एकतन्त्रेण मिलितपञ्चामृत-स्नानविधिः

पृथक् पृथङ्मन्त्रेण पञ्चामृत-स्नानविधिः

जपाभिषेकः – सहजानन्दनामावलिपाठः

नामरटनम्

नीराजनम्

साष्टाङ्गनमस्कारविधिः

प्रदक्षिणा

मन्त्रपुष्पाञ्जलिः

प्रार्थनापूर्वकनमस्काराः

कर्तृत्वादिमननम्

सम्पूर्णतावाचनम्

अर्पणम्

आशीर्वादाः

विसर्जनम्

प्रासादिकपुष्पादिस्वीकरणम्

श्रीहरिप्रार्थनास्तोत्रम्

भक्तिदेवीकृतस्तुतिः

बोचासणमन्दिरप्रतिष्ठान्ते ब्रह्मस्वरूपशास्त्रिमहाराजकृतस्तुतिः

सहजानन्दनामावलिस्तोत्रम्

पारायणपूजनविधिः।

स्वस्तिवाचनम्

अक्षरपुरुषोत्तमाऽभिवन्दनम्

प्रधानसङ्कल्पः

ध्यानम्

आवाहनं स्थापनं च

नीराजनम्

प्रार्थनापूर्वकनमस्काराः

विसर्जनम्

प्रासादिकपुष्पादिस्वीकरणम्

पारायण-पूर्णाहुति-संकल्पः

પરિશિષ્ટ ૧ - સ્તોત્રો

પરિશિષ્ટ ૨ - સહજાનંદનામાવલિ સ્તોત્રમ્

પરિશિષ્ટ ૩ - પારાયણ પૂજનવિધિ

પરિશિષ્ટ ૪ - માસ, તિથિ તથા વારનાં સંસ્કૃત નામો

પરિશિષ્ટ ૫ - મહાપૂજાવિધિની સામગ્રી

પરિશિષ્ટ ૬ - મહાપૂજાવિધિનું મંડળપટ