home share

પરિશિષ્ટ ૨

सहजानन्दनामावलिस्तोत्रम्

मङ्गलम्

वन्देऽहं सहजानन्दं सर्वाऽऽनन्दप्रदं हरिम्।

कृपाधृताऽवतारं तं स्वामिनारायणं हृदा॥ १॥

अष्टाधिकं शतं नाम्नां तस्य सर्वाऽवतारिणः।

वक्ष्यामि सर्वसिद्ध्यर्थम् अक्षराधिपतेः शुभम्॥ २॥

अस्य अष्टाऽधिकशतसहजानन्दनामावलिस्तोत्रमन्त्रस्य प्रकटाऽक्षरब्रह्म गुणातीतो गुरुः ऋषिः। अनुष्टुप् छन्दः। स्वामिनारायणो देवता। अक्षरपुरुषोत्तम इति बीजम्। ब्रह्मद्वारकप्राकट्यः इति शक्तिः। प्रस्थापितस्वसिद्धान्त इति कीलकम्। अस्य चतुर्वर्गसिद्ध्यर्थे तथा च, सर्वविध-शुभसंकल्प-सिद्ध्यर्थे जपे विनियोगः।

ध्यानम्

(હવે ધ્યાન કરીએ.)

(We will now meditate.)

(शिखरिणी छन्दः)

सदा चित्ताऽऽकर्षं वदनकमलं शान्तिसदनं,

दयाराशिः साक्षाद् भरितकरुणं नेत्रयुगलम्।

प्रसन्नं रम्यं च रसितहसनं दुःखहरणम्,

अहो ध्येयं दिव्यं सुखदसहजानन्दसकलम्॥ ३॥

सहजानन्दनामावलिः

स्वामिनारायणः साक्षादक्षरपुरुषोत्तमः।

परमात्मा परब्रह्म भगवान् पुरुषोत्तमः॥ ४॥

अक्षरधामवासोऽसि दिव्यसुन्दरविग्रहः।

साकारो द्विभुजोऽनादिः साकाराऽक्षरसेवितः॥ ५॥

दिव्यासनोपविष्टस्त्वम् अनन्तमुक्तपूजितः।

सर्वकरणशक्तोऽसि समर्थो भक्तिनन्दनः॥ ६॥

दिव्यजन्मा महाराजो दिव्यकर्मा महामतिः।

नारायणो घनश्यामो नीलकण्ठस्तपःप्रियः॥ ७॥

अनासक्तस्तपस्वी त्वम् अलिप्तो भक्तवत्सलः ।

नैकमोक्षार्थयात्रोऽसि सर्वात्मा दिव्यताप्रदः ॥ ८॥

स्वेच्छाधृताऽवतारोऽसि सर्वाऽवतारकारणम् ।

ईश्वरेशः स्वयंसिद्धो भक्तसंकल्पपूरकः ॥ ९॥

संतीर्णसरयूवारिर् हिमगिरिवनप्रियः ।

पुलहाश्रमवासी च पवित्रीकृतमानसः ॥ १०॥

साक्षरः सहजानन्दः सर्वानन्दप्रदः प्रभुः।

प्रणीतदिव्यसत्सङ्गः हरिकृष्णः सुखाश्रयः ॥ ११॥

सर्वज्ञः सर्वकर्ताऽसि सर्वभर्ता नियामकः।

सदासर्वसमुत्कृष्टः शाश्वतशान्तिदायकः ॥ १२॥

धर्मसुतः सदाचारी सदाचारप्रवर्तकः।

सधर्मभक्तिसंगोप्ता दुराचारविदारकः ॥ १३॥

दयालुः कोमलात्माऽसि परदुःखाऽसहो मृदुः।

संत्यक्तसर्वथाहिंसो हिंसावर्जितयागकृत् ॥ १४॥

सकलवेदवेद्योऽसि वेदसत्यार्थबोधकः।

वेदज्ञो वेदसारश्च वैदिकधर्मरक्षकः ॥ १५॥

दिव्यचेष्टाचरित्रश्च सर्वकारणकारणम्।

अन्तर्यामी सदादिव्यो ब्रह्माऽधीशः परात्परः ॥ १६॥

दर्शिताऽक्षरभेदस्त्वं जीवेशभेददर्शकः।

मायानियामकोऽसि त्वं पञ्चतत्त्वप्रकाशकः ॥ १७॥

सर्वकल्याणकारी च सर्वकर्मफलप्रदः।

सकलचेतनोपास्यः शुद्धोपासनबोधकः ॥ १८॥

अक्षराधिपतिः शुद्धः शुद्धभक्तिप्रवर्तकः।

स्वामिनारायणेत्याख्यदिव्यमन्त्रप्रदायकः ॥ १९॥

स्वप्रतिमाप्रतिष्ठाकृत् स्वसम्प्रदायकारकः।

प्रस्थापितस्वसिद्धान्तो ब्रह्मज्ञानप्रकाशकः ॥ २०॥

गुणातीतोक्तमाहात्म्योऽक्षराऽत्मैक्यप्रबोधकः।

मूलाक्षरगुणातीत-स्वरूपपरिचायकः ॥ २१॥

भक्तिलभ्यः कृपासाध्यो भक्तदोषनिवारकः।

शास्त्रिस्थापितसब्रह्म-धातुमूर्तिरलौकिकः ॥ २२॥

ब्रह्मद्वारकप्राकट्यः सम्यगक्षरसंस्थितः।

समाधिकारकोऽसि त्वं निखिलपापनाशकः ॥ २३॥

सर्वतन्त्रस्वतन्त्रस्त्वं मायिकगुणवर्जितः।

दिव्याऽनन्तगुणोऽनन्त-नामा त्वं ध्यायसे मया ॥ २४॥

नाम्नामष्टाधिकेनैवं शतेन कीर्तितो हरिः।

सर्वदुःखविनाशाय दिव्यानन्दाप्तये तथा ॥ २५॥

इत्थं यः सहजानन्द-नामावलीं पठेत् सदा।

नूनं तस्मिन् प्रसन्नः स्याद् अक्षरपुरुषोत्तमः ॥ २६॥

इति अष्टाधिकशतसहजानन्दनामावलिस्तोत्रं सम्पूर्णम्।

SECTION

પ્રકાશકીય

શ્રી મહાપૂજા

मङ्गलम्

आचमनम्

प्राणायामः

शान्तिपाठः

स्वस्तिवाचनम्

कङ्‌कणबन्धनम्

अक्षरपुरुषोत्तमाऽभिवन्दनम्

प्रधानसङ्कल्पः

दिग्रक्षणम्

कलशोपस्थापनम्

मार्जनम्

दीपादि-उपस्थापनम्

श्रीस्वामिनारायणपूजनम्

न्यासविधिः

संकल्पः

ध्यानम्

आवाहनं स्थापनं च

आसनम्

पाद्यम्

अर्घ्यम्

आचमनीयम्

स्नानम्

एकतन्त्रेण मिलितपञ्चामृत-स्नानविधिः

पृथक् पृथङ्मन्त्रेण पञ्चामृत-स्नानविधिः

जपाभिषेकः – सहजानन्दनामावलिपाठः

नामरटनम्

नीराजनम्

साष्टाङ्गनमस्कारविधिः

प्रदक्षिणा

मन्त्रपुष्पाञ्जलिः

प्रार्थनापूर्वकनमस्काराः

कर्तृत्वादिमननम्

सम्पूर्णतावाचनम्

अर्पणम्

आशीर्वादाः

विसर्जनम्

प्रासादिकपुष्पादिस्वीकरणम्

श्रीहरिप्रार्थनास्तोत्रम्

भक्तिदेवीकृतस्तुतिः

बोचासणमन्दिरप्रतिष्ठान्ते ब्रह्मस्वरूपशास्त्रिमहाराजकृतस्तुतिः

सहजानन्दनामावलिस्तोत्रम्

पारायणपूजनविधिः।

स्वस्तिवाचनम्

अक्षरपुरुषोत्तमाऽभिवन्दनम्

प्रधानसङ्कल्पः

ध्यानम्

आवाहनं स्थापनं च

नीराजनम्

प्रार्थनापूर्वकनमस्काराः

विसर्जनम्

प्रासादिकपुष्पादिस्वीकरणम्

पारायण-पूर्णाहुति-संकल्पः

પરિશિષ્ટ ૧ - સ્તોત્રો

પરિશિષ્ટ ૨ - સહજાનંદનામાવલિ સ્તોત્રમ્

પરિશિષ્ટ ૩ - પારાયણ પૂજનવિધિ

પરિશિષ્ટ ૪ - માસ, તિથિ તથા વારનાં સંસ્કૃત નામો

પરિશિષ્ટ ૫ - મહાપૂજાવિધિની સામગ્રી

પરિશિષ્ટ ૬ - મહાપૂજાવિધિનું મંડળપટ