home share

॥श्रीस्वामिनारायणो विजयते॥

अक्षरपुरुषोत्तमाय नमः

॥श्रीस्वामिनारायणमहापूजा॥

 

अथ श्रीस्वामिनारायणमहापूजाविधिः।

 

मङ्गलम्

घृतदीपं प्रज्वाल्य, धूपशलाकां च प्रज्वाल्य मङ्गलम् आचरेत्।

(ઘીનો દીવો તથા અગરબત્તી પ્રગટાવી મંગલાચરણ કરીએ.)

(Let us now light the ghee lamp, fold our hands, and chant the mangalacharan together.)

स्वामिनारायणं साक्षाद् अक्षरपुरुषोत्तमम्।

महापूजासमारम्भे नमामि भक्तिभावतः॥

वन्दे श्रीपुरुषोत्तमं च परमं धामाक्षरं ज्ञानदं,

वन्दे प्रागजिभक्तमेवमनघं ब्रह्मस्वरूपं मुदा।

वन्दे यज्ञपुरुषदासचरणं श्रीयोगिराजं तथा,

वन्दे श्रीप्रमुखं महन्तगुणिनं मोक्षाय भक्त्या सदा॥

 

आचमनम्

(જમણા હાથમાં જળ લઈ ત્રણ વાર આચમન કરો.)

(Take some water in your right hand and drink three times.)

१. ॐ अवतारिणे श्रीस्वामिनारायणाय नमः।

२. ॐ श्रीअक्षरपुरुषोत्तमाय नमः।

३. ॐ श्रीब्रह्मस्वरूपगुरुभ्यो नमः।

 

हस्तप्रक्षालनम्।

(હાથ ધોઈ નાખો.)

(Wash your hands.)

 

प्राणायामः

(હવે જમણા હાથના અંગૂઠાથી જમણી નાસિકા બંધ કરી, ઊંડા શ્વાસ સાથે હૃદયમાં અક્ષરપુરુષોત્તમ મહારાજને ધારી રાખો, ત્યાર બાદ ભજનમાં વિઘ્ન કરનાર માયાનો ત્યાગ કરતા હોઈએ તેવી ભાવનાથી ડાબી નાસિકા બંધ કરી શ્વાસ બહાર કાઢો.)

(Now, close your right nasal passage with your right-hand thumb, take a deep breath, and while meditating upon Akshar-Purushottam Maharaj in your heart, close your left nasal passage and exhale through the right nasal passage. We are removing the maya that hinders us in our worship with this ritual.)

पूरणे पूर्यतां प्राणैरक्षरपुरुषोत्तमः।

कुम्भके धार्यतां प्राणैरक्षरपुरुषोत्तमः।

रेचने रिच्यतां माया भजने विघ्नकारिणी।

सशान्तिं क्रियतामेवं प्राणायामः सुखास्पदः॥

एवम् आचम्य प्राणान् आयम्य च –

 

शान्तिपाठः

(હવે હાથ જોડી સદા સર્વત્ર અને સર્વ પ્રકારે શાંતિ થાય તે માટે અક્ષરપુરુષોત્તમ મહારાજની પ્રાર્થના કરીએ.)

(Now, let us fold our hands and pray to Akshar-Purushottam Maharaj so that peace pervades everywhere.)

दिव्यां शान्तिं परां शान्तिं शान्तिं हि शाश्वतीं ध्रुवाम्।

तनोतु सहजानन्दः सर्वत्र सर्वथा सदा॥

मन्त्रः –

हरिः ॐ द्यौः शान्तिरन्तरिक्षगूँ शान्तिः पृथिवी, शान्तिरापः शान्तिरोधयः

शान्तिः। वनस्पतयः शान्तिर्विश्वे देवाः, शान्तिर्ब्रह्म शान्तिः सर्वगूँ, शान्तिः

शान्तिरेव शान्तिः सा मा, शान्तिरेधि॥

(शुक्लयजुर्वेद: ३६/१७)

मन्त्रः –

तो यतः समीहसे ततो नोऽअभयङ्‌कुरु।

शन्नः कुरु प्रजाभ्योऽभयन्नः पशुभ्यः॥

(शुक्लयजुर्वेद: ३६/२२)

मन्त्रः –

विश्वानि देव सवितर्दुरितानि परासुव। द् भद्रन् तन्नऽआसुव॥

(शुक्लयजुर्वेद: ३०/३)

ॐ शान्तिः। शान्तिः। शान्तिः। सुशान्तिर्भवतु। सर्वारिष्टशान्तिर्भवतु।

 

स्वस्तिवाचनम्

कुङ्कुमेन चन्दनेन वा यजमानभाले साऽक्षतं स्वस्तितिलकं विदध्यात्।

(અક્ષરપુરુષોત્તમ મહારાજને ચાંદલો કરી, યજમાનોના કપાળમાં ચોખા સહિત કુમકુમનો અથવા ચંદનનો ચાંદલો કરો.)

(Apply a chandlo to Akshar-Purushottam Maharaj, then apply a kumkum or chandan chandlo with rice grains to the other participants.)

मनसि राजतां स्वस्ति स्वस्ति वचसि कर्मणि।

भूयात् स्वस्तिमयं सर्वं स्वामिनारायण! प्रभो!॥

मन्त्रः –

हरिः ॐ स्वस्ति नऽइन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।

स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो बृहस्पति र्दधातु॥

(शुक्लयजुर्वेद: २५/१९)

मन्त्रः –

भद्रङ्कर्ण्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभि र्यजत्राः।

स्थिरैरङ्‍गैस्-तुष्टुवागुँसस्तनूभिर्व्यशेमहि देव-हितय्यँदायुः॥

(शुक्लयजुर्वेद: २५/२१)

कङ्‍कणबन्धनम्

यजमानस्य दक्षिणहस्तमणिबन्धे रक्तसूत्रकङ्कणं बध्नीयात्।

(અક્ષરપુરુષોત્તમ મહારાજની પ્રસાદીભૂત નાડાછડી યજમાનોના જમણા કાંડે બાંધો.)

(Now, offer the nadachhadi to Akshar-Purushottam Maharaj, then tie the sanctified nadachhadi to the right wrist of the participants.)

दुःखबन्धमपाकर्तुं सुखबन्धाऽऽप्तये पुनः।

धर्मबन्धमयं सूत्रं मणिबन्धे सुबद्‌ध्यते॥

आज्ञया बद्‌ध्यसे नूनं निष्ठया बद्‌ध्यसे तथा।

भक्त्या त्वं बद्‌ध्यसे नित्यम् अक्षरपुरुषोत्तमे॥

मन्त्रः –

हरिः ॐ दा बध्नन् दाक्षायणा हिरण्यगूँ शतानीकाय सुमनस्यमानाः।

तन्मऽआबध्नामि शतशारदाया-युष्माञ्जर-दष्टि र्यथासम्॥

(शुक्लयजुर्वेद: ३४/५२)

 

अक्षरपुरुषोत्तमाऽभिवन्दनम्

हस्ते पुष्पाणि अक्षताँश्च आदाय

(જમણા હાથમાં પુષ્પ તથા ચોખા રાખો.)

(Hold some flower petals and rice in your right hand.)

सर्वान्तर्यामिणं वन्दे सर्वकारणकारणम्।

स्वामिनारायणं दिव्यम् अक्षरपुरुषोत्तमम्॥

सर्वाऽवतारिणं वन्दे दयालुं शान्तिदायकम्।

वन्दे मोक्षकरं नित्यम् अक्षरपुरुषोत्तमम्॥

भक्तिलभ्यमहं वन्दे वन्देऽहं भक्तवत्सलम्।

प्रत्यक्षं मिलितं साक्षाद् अक्षरपुरुषोत्तमम्॥

ब्रह्माऽक्षरं गुरुं वन्दे सहजानन्दधारिणम्।

अक्षतैर्विविधैः पुष्पैर्वन्देऽहं भक्तिभावतः॥

१. ॐ श्रीपरब्रह्मपुरुषोत्तमाय भगवते श्रीस्वामिनारायणाय नमो नमः।

२. ॐ श्रीअक्षरपुरुषोत्तममहाराजाय नमो नमः।

३. ॐ श्रीगुणातीतानन्दस्वामिमहाराजाय नमो नमः।

४. ॐ श्रीभगतजीमहाराजाय नमो नमः।

५. ॐ श्रीशास्त्रिजीमहाराजाय नमो नमः।

६. ॐ श्रीयोगिजीमहाराजाय नमो नमः।

७. ॐ श्रीप्रमुखस्वामिमहाराजाय नमो नमः।

८. ॐ श्रीमहन्तस्वामिमहाराजाय नमो नमः।

९. ॐ श्रीसकलाऽक्षरमुक्तेभ्यो नमो नमः।

अक्षरपुरुषोत्तमाऽभिवन्दनार्थं, सकलाऽक्षरमुक्ताऽभिवन्दनार्थं च गन्धाक्षतपुष्पाणि समर्पयामि। नमस्करोमि।

(પુષ્પ તથા ચોખા અક્ષરપુરુષોત્તમ મહારાજ ઉપર પધરાવો.)

(Offer the flower petals and rice to Akshar-Purushottam Maharaj.)

 

प्रधानसङ्‍कल्पः

हस्ते जलमादाय

(હવે આ મહાપૂજાવિધિનો મુખ્ય સંકલ્પ શરૂ થાય છે, તો સર્વ યજમાનો જમણા હાથમાં જળ રાખે.)

(Now, the main vow of this mahapuja will commence. Hold a spoonful of water in your right hand.)

नमः परमात्मने, श्रीस्वामिनारायण-परब्रह्म-पुरुषोत्तमाय तत्सत्। अद्य ब्रह्मणो द्वितीये परार्धे, श्रीश्वेतवाराहकल्पे सप्तमे वैवस्वतमन्वन्तरे, अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे, भूर्लोके जम्बूद्वीपे भरतखण्डे, भारतवर्षे आर्यावर्तान्तर्गत-ब्रह्मावर्तैकदेशे, पुण्यभूमौ [_______________] राज्ये, [_______________] नगरे, अस्मिन् [_______________] महाशुभस्थाने, मासोत्तमे मासे, [_______________] मासे, [शुक्ले/कृष्णे] पक्षे, शुभपुण्यतिथौ, [_______________] तिथौ, [_______________] वासरे, सर्वेषु ग्रहेषु यथायथं, राशिस्थानस्थितेषु सत्सु, भक्तानां नामानि दीयन्ते। साङ्गं सपरिवारं, तत्-तन्-नगर-वास्तव्यानां, [_______________] नाम्नां भक्तानाम्, अत्र उपस्थितानाम् अनुपस्थितानां च, सर्वेषां सत्सङ्गिनां साधूनां पार्षदानां साधकानां समस्तगुणातीत-मण्डलभक्तानां;

(હવે અહીંથી જે રીતે બોલવામાં આવે તે રીતે બોલો.)

(Now, repeat the words that are spoken.)

मम तथा च आत्मनः

१. वेदोक्त-पुण्यफल-प्राप्ति-अर्थम्

२. कायिक-वाचिक-मानसिक-कर्मदोष-परिहार-अर्थम्

३. आध्यात्मिक-आधिभौतिक-आधिदैविक-त्रिविध-ताप-उपशमन-अर्थम्

४. लोके सभायां राजद्वारे धर्मक्षेत्रे कृषिक्षेत्रे व्यापारक्षेत्रे उद्योगक्षेत्रे अभ्यासक्षेत्रे स्वे स्वे कर्मणि यशो-विजय-लाभ-धन-धान्य-आदि-प्राप्ति-अर्थम्

५. शरीरे गृहे च दोष-रोग-क्लेश-भय-उच्चाट-व्याधि-आदि-विनाश-अर्थम्

६. गृहे देवालये च अप्राप्त-लक्ष्मी-प्राप्ति-अर्थम्

७. प्राप्त-लक्ष्मी-चिरकाल-संरक्षण-अर्थम्

८. धर्म-अर्थ-काम-मोक्ष-फल-प्राप्ति-अर्थम्

९. अक्षरपुरुषोत्तम-सिद्धान्त-साक्षात्कार-अर्थम्

१०. अक्षररूपता-प्राप्ति-पूर्वक-पुरुषोत्तम-सहजानन्द-भक्ति-अर्थम्

११. दासभाव-दिव्यदृष्टि-सुहृद्भाव-आदि-प्राप्ति-अर्थम्

१२. परब्रह्म-श्रीस्वामिनारायण-गुरुहरि-श्रीप्रमुखस्वामिमहाराज-प्रकटगुरुहरि-श्रीमहन्तस्वामिमहाराज-प्रसन्नता-प्राप्ति-अर्थम्

१३. सर्व-अभिलाष-सिद्धि-अर्थम्

यथाज्ञानेन यथामिलितोपचारद्रव्यैः, ध्यानावाहनादिषोडशोपचारैः, अन्योपचारैश्च, [_______________] निमित्ते श्रीमहापूजा-आख्यङ्कर्म, अहं करिष्ये।

(જળ નીચે પધરાવો.)

(Deposit the water into an empty bowl.)

 

दिग्रक्षणम्

वामहस्ते अक्षतान् गृहीत्वा दक्षिणहस्तेन तान् आच्छाद्य

(ડાબા હાથમાં ચોખા લઈ તેની ઉપર જમણો હાથ ઢાંકો.)

(Take some rice grain in your left hand and cover your left hand with your right hand.)

व्याप्ताः सर्वा दिशो याभ्यां तावहमभिचिन्तये।

प्रकुरुतं दिशो दिव्या अक्षरपुरुषोत्तमौ॥

(હવે જે દિશાનું નામ બોલાય તે દિશામાં ચોખાના બે-બે દાણા પધરાવો.)

(Now, spread a few rice grains in each direction that is called.)

१. ॐ पूर्वाम् अक्षरपुरुषोत्तमो रक्षतु।

२. ॐ दक्षिणाम् अक्षरपुरुषोत्तमो रक्षतु।

३. ॐ पश्चिमाम् अक्षरपुरुषोत्तमो रक्षतु।

४. ॐ उत्तराम् अक्षरपुरुषोत्तमो रक्षतु।

५. ॐ ऊर्ध्वम् अक्षरपुरुषोत्तमो रक्षतु।

६. ॐ अधः अक्षरपुरुषोत्तमो रक्षतु।

(ચારેય બાજુ ચોખા પધરાવી સર્વત્ર અંતર્યામીપણે રહેલા અક્ષરપુરુષોત્તમ મહારાજને વંદન કરો.)

(Now, spread the rice grain in all directions and bow down to Akshar-Purushottam Maharaj, who is omnisciently present everywhere, with folded hands.)

 

कलशोपस्थापनम्

सजले कलशे सर्वतीर्थानि आह्वातुं पूजायाम् उपस्थापयेत्।

(જળ ભરી કળશનું સ્થાપન કરો. જમણા હાથે કળશનો સ્પર્શ કરી તેમાં ભગવાન સ્વામિનારાયણ, અક્ષરમૂર્તિ ગુણાતીતાનંદ સ્વામી તથા બ્રહ્મસ્વરૂપ ગુરુઓએ પ્રસાદીભૂત કરેલ નદીઓનું તથા પવિત્ર તીર્થોનું આહ્વાન કરો.)

(Install the kalash by filling it with water. Touch the kalash with your right hand. We will invoke the waters of the holy rivers and holy places sanctified by Bhagwan Swaminarayan, Aksharmurti Gunatitanand Swami, and the brahmaswarup gurus.)

कलशः सजलः शुद्धः पूजायां स्थापितः शुभः।

आवाह्ये सर्वतीर्थानि त्वत्पूतानि हि तज्जले॥

ॐ ब्रह्मपुत्रा-उन्मत्तगङ्गा-तापी-मही-साबरमती-मालिनी-उतावली-गोण्डली-फल्गु-गोमती-सहस्रधाराः कुण्डाश्च जलेऽस्मिन् सन्निधिं कुरुत।

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः।

कलशे सर्वतीर्थानि आह्वाय्य पुष्पाणि अक्षताँश्च समर्पयामि।

(કળશમાં પુષ્પ તથા ચોખા પધરાવો.)

(Deposit flower petals and rice grains into the kalash.)

 

मार्जनम्

तस्माद् उदकाद् उदकं गृहीत्वा सर्वत्र सम्प्रोक्षेत्।

(કળશનું પ્રસાદીભૂત જળ જલપાત્રમાં ઉમેરો અને તે જળનું પૂજાસામગ્રી તથા શરીર પર પ્રોક્ષણ કરો.)

(Pour some sanctified water from the kalash into an empty bowl. Then, sprinkle that water onto the puja items and your body.)

निर्दोषं पावनं दिव्यं त्वत्प्रसादितवारिणा।

भवेत् सुखमयं सर्वम् अक्षरपुरुषोत्तम॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। मार्जनं करोमि।

 

दीपादि-उपस्थापनम्

घृतदीपं, पयःपूरितं शङ्खं, घण्टां च पूजायाम् उपयोगाय उपस्थापयेत्।

(હવે મહાપૂજાના ઉપયોગ માટે દીપ, શંખ તથા ઘંટને યથાસ્થાને મૂકી પુષ્પ તથા અક્ષતથી વધાવો.)

(Now, place the divo, conch, and bell – items that are used in the mahapuja – in their rightful pace, then shower them with few flower petals and rice grains.)

दीपो घृतमयो दीप्तः शङ्खः पयःप्रपूरितः।

मधुरनादघण्टा च पूजायां स्थापिता मुदा॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः।

घृतदीपं, पयःपूरितं शङ्खं, घण्टां च उपस्थापयामि।

 

श्रीस्वामिनारायणपूजनम्

न्यासविधिः

महापूजाऽधिकारप्राप्त्यर्थं न्यासान् कुर्यात्।

“બ્રહ્મરૂપ થાય તેને જ પરબ્રહ્મની ભક્તિનો અધિકાર પ્રાપ્ત થાય છે.” - ભગવાન સ્વામિનારાયણના આ હૃદ્‌ગત સિદ્ધાંત અનુસાર મહાપૂજાની યોગ્યતા પ્રાપ્ત કરવા માટે આ સિદ્ધાંતરૂપ ત્રયોદશાક્ષર મંત્ર દ્વારા પ્રથમ કર ન્યાસ કરીને હાથની આંગળીઓને બ્રહ્મભાવથી પવિત્ર કરીએ. ત્યારબાદ તે આંગળીઓ વડે વૈદિક મંત્રો દ્વારા (અથવા ત્રયોદશાક્ષર મંત્ર દ્વારા) અંગન્યાસથી આપણા મુખ્ય છ અંગોને બ્રહ્મભાવથી પવિત્ર કરીએ.

संकल्पः

हस्ते जलमादाय

(જમણા હાથમાં જળ ધારણ કરી રાખો.)

(Hold a spoonful of water with your right hand.)

अक्षरब्रह्मभावेन संस्कर्तुं कायमिन्द्रियम्।

सहजानन्दपूजार्थम् न्यासो विधीयते मया॥

मन्त्रः –

हरिः ॐ तद् विज्ञानार्थं स गुरुमेवाऽभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्म निष्ठम्।

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय।

येनाऽक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्॥

(मु.उ. १/२/१२,१३)

ॐ महापूजाधिकारप्राप्त्यर्थं त्रयोदशाक्षरमन्त्रेण करन्यासान् तथा च अक्षरब्रह्ममाहात्म्यमन्त्रैः (त्रयोदशाक्षरमन्त्रेण वा) षडङ्गन्यासान् अहं करिष्ये।

(જળ નીચે પધરાવો.)

(Deposit the water into an empty bowl.)

ॐ अक्षरमहं पुरुषोत्तमदासोऽस्मीति त्रयोदशाक्षरमन्त्रस्य प्रकटाऽक्षरब्रह्म गुणातीतो गुरुः ऋषिः। परब्रह्म पुरुषोत्तमः स्वामिनारायणो देवता। करन्यासे विनियोगः।

करन्यासाः

ॐ अक्षरमित्यङ्गुष्ठाभ्यां नमः।

ॐ अहमिति तर्जनीभ्यां नमः।

ॐ पुरुषोत्तमेति मध्यमाभ्यां नमः।

ॐ दास इत्यनामिकाभ्यां नमः।

ॐ अस्मीति कनिष्ठिकाभ्यां नमः।

ॐ अक्षरमहं पुरुषोत्तमदासोस्मीति करतलकरपृष्ठाभ्यां नमः।

षडङ्गन्यासाः

ॐ आविः सन्निहितमित्यादीनाम् अक्षरब्रह्ममाहात्म्यमन्त्राणां षडङ्गन्यासे विनियोगः।

(જે અંગનું નામ બોલાય, તે અંગનો જમણા હાથે સ્પર્શ કરવો.)

(Now, touch each body part that is called with our right hand.)

हृदये –

ब्रह्मभावभरो भूयाद् हृदयनिर्झरो मम।

निष्ठया झङ्कृतो नित्यम् अक्षरपुरुषोत्तमे॥

मन्त्रः –

हरिः ॐ आविः सन्निहितं गुहाचरं नाम महत् पदमत्रैतत् समर्पितम्। एजत् प्राणन्निमिषच्च यदेतत् तज्जानथ सदसद्वरेण्यं परं विज्ञानाद् यद् वरिष्ठं प्रजानाम्॥

(मु.उ. २/२/१)

ॐ अक्षरमहं पुरुषोत्तमदासोऽस्मीति हृदयाय नमः।

शिरसि –

मननं निश्चयो मेधा प्रज्ञा च चिन्तनं स्मृतिः।

सर्वं ब्रह्ममयं भूयात् सहजानन्दभक्तये॥

मन्त्रः –

हरिः ॐ यदर्चिमद् यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च।

तदेतद् अक्षरं ब्रह्म स प्राणस्तदु वाङ्‌मनः।

तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सौम्य विद्धि॥

(मु.उ. २/२/२)

ॐ अक्षरमहं पुरुषोत्तमदासोऽस्मीति शिरसे स्वाहा।

शिखायाम् –

दिव्यभावे ब्रह्मभावे दासभावेन वर्तने।

हरौ गुरौ च सत्सङ्गे बद्धशिखोऽस्मि निश्चये॥

मन्त्रः –

हरिः ॐ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते।

अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत्॥

(मु.उ. २/२/४)

ॐ अक्षरमहं पुरुषोत्तमदासोऽस्मीति शिखायै वषट्।

बाह्वोः –

सेवायां परिचर्यायां ब्रह्मपरमब्रह्मणोः।

तत्समाश्रितभक्तानां बाहू मे भवतां सदा॥

मन्त्रः –

हरिः ॐ यस्मिन् द्यौः पृथिवी चाऽन्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः।

तमेवैकं जानथाऽऽत्मानम् अन्यावाचो विमुञ्चथाऽमृतस्यैष सेतुः॥

(मु.उ. २/२/५)

ॐ अक्षरमहं पुरुषोत्तमदासोऽस्मीति कवचाय हुम्।

नेत्रयोः –

स्थलादौ स्थावरे नित्यं जलादौ जङ्गमे तथा।

सर्वदेहिषु पश्येयम् अक्षरपुरुषोत्तमम्॥

मन्त्रः –

हरिः ॐ हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्।

तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः॥

(मु.उ. २/२/९)

ॐ अक्षरमहं पुरुषोत्तमदासोऽस्मीति नेत्राभ्यां वौषट्।

(જમણા હાથની પહેલી બે આંગળીને ડાબા હાથની મુઠ્ઠીમાં રાખો.)

(Hold the first two fingers of your right hand into your left-hand fist.)

 

अस्त्राय –

मानात् कामात् तथा लोभात् क्रोधादीर्ष्यादितस्तथा।

ब्रह्मभावाऽस्त्रसामर्थ्यं रक्षेन्मां पुरुषोत्तम॥

मन्त्रः –

हरिः ॐ ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण।

अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्॥

(मु.उ. २/२/११)

ॐ अक्षरमहं पुरुषोत्तमदासोऽस्मीति अस्त्राय फट्।

(સંક્ષેપમાં ષડઙ્‍ગન્યાસ કરવા માટે નીચે દર્શાવ્યા પ્રમાણે ન્યાસવિધિ કરવો.)

(Now, we will participate in the brief nyas-vidhi of the six body parts.)

संक्षिप्तषडङ्‌गन्यासाः

ॐ अक्षरमिति हृदयाय नमः।

ॐ अहमिति शिरसे स्वाहा।

ॐ पुरुषोत्तमेति शिखायै वषट्।

ॐ दास इति कवचाय हुम्।

ॐ अस्मीति नेत्राभ्यां वौषट्।

ॐ अक्षरमहं पुरुषोत्तमदासोस्मीति अस्त्राय फट्।

 

अथ विविधोपचारपूजनविधिः

तत्रादौ –

ध्यानम्

(હૃદયમાં બિરાજમાન અક્ષરપુરુષોત્તમ મહારાજનું પૂજામાં આવાહન કરતાં પહેલાં તેમના સ્વરૂપનું ધ્યાન કરો. મનોમન પરબ્રહ્મ સ્વામિનારાયણ તથા પ્રત્યક્ષ ગુરુહરિનું સ્મરણ કરો.)

(Before invoking Akshar-Purushottam Maharaj that resides in our heart into our puja, we will meditate upon Akshar-Purushottam Maharaj. We will also meditate upon Bhagwan Swaminarayan and guruhari Mahant Swami Maharaj.)

ध्यायामि परमानन्दम् अक्षरपुरुषोत्तमम्।

दिव्यं दिव्यगुणोपेतं दिव्याभं दिव्यविग्रहम्॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। ध्यायामि मनसा पूजयामि च।

आवाहनं स्थापनं च

(હવે ધામ, ધામી અને મુક્તોનું આવાહન તથા સ્થાપન કરીએ.)

(Now, we will invoke dham, dhami, and the muktas and install them into our puja.)

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।

गुणातीताऽक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सांनिध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥

(ડાબા હાથમાં ચોખા રાખી પ્રત્યેક નામના અંતે જમણા હાથે ચોખાના બે દાણા પધરાવો અને સાથે ‘आवाहयामि स्थापयामि’ એમ ઉચ્ચ સ્વરે બોલો.)

(Take some rice grains into your left hand. After each name is called, offer two rice grains with your right hand and say ‘avāhayāmi sthāpayāmi’.)

१. मध्ये अवतारिणं परब्रह्म श्रीस्वामिनारायणम् आवाहयामि स्थापयामि।

२. वामबाहौ अक्षरब्रह्म श्रीगुणातीतानन्दस्वामिमहाराजम् आ. स्था.

३. पूर्वे ब्रह्मस्वरूप-श्रीभगतजीमहाराजम् आ. स्था.

४. दक्षिणे ब्रह्मस्वरूप-श्रीशास्त्रिजीमहाराजम् आ. स्था.

५. पश्चिमे ब्रह्मस्वरूप-श्रीयोगिजीमहाराजम् आ. स्था.

६. उत्तरे ब्रह्मस्वरूप-श्रीप्रमुखस्वामिमहाराजम् आ. स्था.

७. अग्नौ प्रकटब्रह्मस्वरूप-श्रीमहन्तस्वामिमाहाराजाय आ. स्था.

८. पूर्वे श्रीरामानन्दं मुक्तानन्दं च आ. स्था.

९. अग्नौ श्रीगोपालानन्दं नित्यानन्दं च आ. स्था.

१०. दक्षिणे श्रीनिष्कुलानन्दं कृपानन्दं च आ. स्था.

११. नैर्ऋत्ये श्रीब्रह्मानन्दं प्रेमानन्दं च आ. स्था.

१२. पश्चिमे श्रीस्वरूपानन्दं सच्चिदानन्दं च आ. स्था.

१३. वायव्ये श्रीआत्मानन्दं रामदासं च आ. स्था.

१४. उत्तरे श्रीनिरञ्जनानन्दं विधात्रानन्दं च आ. स्था.

१५. ईशाने श्रीवासुदेवानन्दं मुकुन्दानन्दं च आ. स्था.

१६. पूर्वे श्रीधर्मं भक्तिं च आ. स्था.

१७. अग्नौ श्रीआनन्दानन्दं शुकानन्दं च आ. स्था.

१८. दक्षिणे श्रीस्वयंप्रकाशानन्दं महानुभावानन्दं च आ. स्था.

१९. नैर्ऋत्ये श्रीविज्ञानानन्दं पर्वतभाईसंज्ञं च आ. स्था.

२०. पश्चिमे श्रीगोवर्धनभाईसंज्ञम् उत्तमनृपं च आ. स्था.

२१. वायव्ये श्रीझीणाभाईसंज्ञं काशीदासं च आ. स्था.

२२. उत्तरे श्रीकल्याणभाईसंज्ञं जागाभक्तं च आ. स्था.

२३. ईशाने श्रीविज्ञानदासं निर्गुणदासं च आ. स्था.

२४. पूर्वाग्निमध्ये श्रीमत्स्यं कूर्मं च आ. स्था.

२५. अग्निदक्षिणमध्ये श्रीवराहं नृसिंहं च आ. स्था.

२६. दक्षिणनैर्ऋत्यमध्ये श्रीवामनं परशुरामं च आ. स्था.

२७. नैर्ऋत्यपश्चिममध्ये श्रीबुद्धं कल्किं च आ. स्था.

२८. पश्चिमवायव्यमध्ये श्रीकपिलं व्यासं च आ. स्था.

२९. वायव्योत्तरमध्ये श्रीरघुवीरम् अयोध्याप्रसादं च आ. स्था.

३०. उत्तरेशानमध्ये श्रीगणपतिम् इन्द्रादिदिक्पालान् च आ. स्था.

३१. ईशानपूर्वमध्ये अवशिष्टव्यूहविभवं गुणातीतमण्डलं च आ. स्था.

३२. पूर्वे श्रीसूर्यम् आ. स्था.

३३. अग्नौ श्रीब्रह्माणम् आ. स्था.

३४. दक्षिणे श्रीविष्णुम् आ. स्था.

३५. नैर्ऋत्ये श्रीसीतारामम् आ. स्था.

३६. पश्चिमे श्रीलक्ष्मीनारायणम् आ. स्था.

३७. वायव्ये श्रीनरनारायणम् आ. स्था.

३८. उत्तरे श्रीराधाकृष्णम् आ. स्था.

३९. ईशाने श्रीगौरीमहेशम् आ. स्था.

४०. पूर्वद्वारे श्रीसोमं शूरं च आ. स्था.

४१. दक्षिणद्वारे श्रीकुबेरं यौवनं च आ. स्था.

४२. पश्चिमद्वारे श्रीरत्नजितं नाञ्जभक्तं च आ. स्था.

४३. उत्तरद्वारे श्रीखट्वाङ्गं भृगुजितं च आ. स्था.

आवाहिताः सर्वे सुप्रतिष्ठिताः भवन्तु। अक्षरपुरुषोत्तममहाराजश्च वरदो भवतु।

 

आसनम्

(તરભાણામાં તુલસીપત્ર ઉપર અક્ષરપુરુષોત્તમ મહારાજને પધરાવી ચોખાથી વધાવો.)

(Now, install Akshar-Purushottam Maharaj onto a tulsi leaf that is placed in a dish. Then offer some rice grains.)

आसनं सुन्दरं दिव्यं साक्षत-तुलसीदलम्।

अर्प्यते भक्तिभावेन ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। आसनं समर्पयामि। आसनार्थे अक्षतान् तुलसीदलं च समर्पयामि।

 

पाद्यम्

(ચંદનયુક્ત જળથી અક્ષરપુષ્પોત્તમ મહારાજનાં ચરણ પખાળો.)

(Then, wash the holy feet of Akshar-Purushottam Maharaj with chandan-scented water.)

निर्मलं समशीतोष्णं पाद्यं पापविनाशकम्।

पादयोरर्प्यते भक्त्या ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। पादयोः पाद्यं समर्पयामि।

 

अर्घ्यम्

(ચંદન, ચોખા અને પુષ્પયુક્ત જળ વડે અક્ષરપુરુષોત્તમ મહારાજને અર્ઘ્ય આપો.)

(Then, offer Akshar-Purushottam Maharaj water containing chandan, rice grains, and flower petals.)

चन्दनसुमनोगन्धम् अक्षतैर्मिलितं तथा।

अर्घ्यं समर्प्यते भक्त्या ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपरुषोत्तमाय नमः। हस्तयोः अर्घ्यं समर्पयामि।

 

आचमनीयम्

(અક્ષરપુરુષોત્તમ મહારાજને જળનું આચમન કરાવો.)

(Offer Akshar-Purushottam Maharaj water.)

निर्मलं भावशुद्धं यद् यच्च तृप्तिकरं शुभम्।

आचमनीयमानीतं ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। मुखे आचमनीयं समर्पयामि।

 

स्नानम्

(અક્ષરપુરુષોત્તમ મહારાજને જળ વડે સ્નાન કરાવો.)

(Bathe Akshar-Purushottam Maharaj with clean water.)

सरित्-सरः-समुद्राश्च संसृष्टा येन सर्जने।

स्नानं समर्प्यते तस्मै ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। सर्वाङ्गे स्नानं समर्पयामि।

 

एकतन्त्रेण मिलितपञ्चामृत-स्नानविधिः

(અક્ષરપુરુષોત્તમ મહારાજને પંચામૃતથી સ્નાન કરાવો.)

(Bathe Akshar-Purushottam Maharaj with panchamrut.)

दुग्धेन दधिना भूरि घृतेन मधुना तथा।

शर्करयाऽर्प्यते स्नानं ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। एकतन्त्रेण मिलितपञ्चामृतस्नानं समर्पयामि।

 

पृथक् पृथङ्‍मन्त्रेण पञ्चामृत-स्नानविधिः

पयःस्नानम्

(અક્ષરપુરુષોત્તમ મહારાજને દૂધથી સ્નાન કરાવો.)

(Bathe Akshar-Purushottam Maharaj with milk.)

पवित्रं मधुरास्वादं शुभ्रकान्तिसमुज्ज्वलम्।

स्नानार्थमर्प्यते दुग्धं ब्रह्मणे परब्रह्मणे॥

मन्त्रः –

हरिः ॐ पयः पृथिव्यां पयऽओषधीषु पयो दिव्यन्तरिक्षे पयोधाः।

पयस्वतीः प्रदिशः सन्तु मह्यम्॥

(शुक्लयजुर्वेद: १८/३६)

ॐ स्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। पयःस्नानं समर्पयामि। पयः स्नानान्ते शुद्धोदकस्नानं समर्पयामि।

(શુદ્ધ જળની એક આચમની અક્ષરપુરુષોત્તમ મહારાજ ઉપર પધરાવો.)

(Shower Akshar-Purushottam Maharaj with a spoonful of clean water.)

दधिस्नानम्

(અક્ષરપુરુષોત્તમ મહારાજને દહીંથી સ્નાન કરાવો.)

(Bathe Akshar-Purushottam Maharaj with yoghurt.)

शशिद्युतिं दधानं यत् शुद्धाऽऽतञ्चननिर्मितम्।

दधि स्नानार्थमानीतं ब्रह्मणे परब्रह्मणे॥

मन्त्रः –

हरिः ॐ दधिक्राव्णोऽअकारिञ्जिष्णोरश्वस्य वाजिनः।

सुरभि नो मुखाकरत् प्रणऽआयूगुँषि तारित्॥

(शुक्लयजुर्वेद: २३/३२)

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। दधिस्नानं समर्पयामि। दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि।

(શુદ્ધ જળની એક આચમની અક્ષરપુરુષોત્તમ મહારાજ ઉપર પધરાવો.)

(Shower Akshar-Purushottam Maharaj with a spoonful of clean water.)

घृतस्नानम्

(અક્ષરપુરુષોત્તમ મહારાજને ઘીથી સ્નાન કરાવો.)

(Bathe Akshar-Purushottam Maharaj with ghee.)

आयुर्वर्धनपीयूषं सञ्जातं दधिमन्थनात्।

घृतं स्नानार्थमानीतं ब्रह्मणे परब्रह्मणे॥

मन्त्रः –

हरिः ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम।

अनुष्वधमा वह मादयस्व स्वाहा, कृतं वृषभ वक्षि हव्यम्॥

(ऋग्वेद: मं. २/सू. ३/म. ११, शुक्लयजुर्वेद: १७/८८)

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। घृतस्नानं समर्पयामि। घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि।

(શુદ્ધ જળની એક આચમની અક્ષરપુરુષોત્તમ મહારાજ ઉપર પધરાવો.)

(Shower Akshar-Purushottam Maharaj with a spoonful of clean water.)

मधुस्नानम्

(અક્ષરપુરુષોત્તમ મહારાજને મધથી સ્નાન કરાવો.)

(Bathe Akshar-Purushottam Maharaj with honey.)

नानापुष्पौषधीनां यत् साराज्जातं मधु मधु।

स्नानार्थमर्पितं स्निग्धं ब्रह्मणे परब्रह्मणे॥

मन्त्रः –

हरिः ॐ मधु वाताऽतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नः सन्त्वोधीः॥

मधुनक्तमुतोसो मधुमत् पार्थिवगूँरजः। मधु द्यौरस्तु नः पिता॥

मधुमान्नो वनस्पतिर्म्मधु माँ अस्तु सूर्यः। माध्वीर्गावो भवन्तु नः॥

(शुक्लयजुर्वेद: १३/२७-२९)

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। मधुस्नानं समर्पयामि। मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि।

(શુદ્ધ જળની એક આચમની અક્ષરપુરુષોત્તમ મહારાજ ઉપર પધરાવો.)

(Shower Akshar-Purushottam Maharaj with a spoonful of clean water.)

शर्करास्नानम्

(અક્ષરપુરુષોત્તમ મહારાજને સાકરથી સ્નાન કરાવો.)

(Bathe Akshar-Purushottam Maharaj with sākar or ground sugar.)

 

शर्करा धवला मिष्टा बलाऽऽनन्दविवर्धिनी।

स्नानार्थमर्पिता भक्त्या ब्रह्मणे परब्रह्मणे॥

मन्त्रः –

हरिः ॐ अपागुँ रसमुद्वयसगूँ सूर्ये सन्तगूँ समाहितम्। अपागूँरसस्य यो रसस्तं वो गृह्ण्णाम्युत्तममुपयाम गृहीतो सीन्द्राय त्वा जुष्टङ् गृह्ण्णाम्ये ते योनिरिन्द्राय त्वा जुष्टतमम्॥

(शुक्लयजुर्वेद: ९/३)

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। शर्करास्नानं समर्पयामि। शर्करास्नानान्ते शुद्धोदकस्नानं समर्पयामि।

(શુદ્ધ જળની એક આચમની અક્ષરપુરુષોત્તમ મહારાજ ઉપર પધરાવો.)

(Shower Akshar-Purushottam Maharaj with a spoonful of clean water.)

शुद्धोदकस्नानम्

(અક્ષરપુરુષોત્તમ મહારાજને શુદ્ધ જળથી સ્નાન કરાવો.)

(Bathe Akshar-Purushottam Maharaj with clean water.)

उदकं पवितं शुद्धं प्रभूतं निर्मलं प्रियम्।

स्नानार्थमर्पितं भक्त्या ब्रह्मणे परब्रह्मणे॥

(शार्दूलविक्रीडितं छन्दः)

भद्रा भोगवती च कृष्णभरणी शत्रुञ्जया गोमती,

शुभ्रा कालवती सदा सुगहना स्वोजस्वती गोण्डली।

तापी साभ्रमती शुभा च सरयूः शीघ्रा मही मालिनी,

दद्यात् स्नानकराय दिव्यहरिपूतोन्मत्तगङ्गा सुखम्॥

(इन्द्रवज्रा छन्दः)

नद्याः प्रवाहे जलधेस्तरङ्गे नीरे प्रसन्ने सुसरज्झरे वा।

आर्द्राऽङ्गरम्यं जलराशिमग्नं ध्येयं महाराज! तव स्वरूपम्॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। शुद्धोदकस्नानं समर्पयामि। शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि।

(અક્ષરપુરુષોત્તમ મહારાજને રૂમાલથી લૂછીને સ્વસ્થાને પધરાવો અને શુદ્ધજળની એક આચમની તરભાણામાં આચમન રૂપે પધરાવો.)

(Wipe and dry Akshar-Purushottam Maharaj with a towel, then install him back to his place. Then, offer one spoonful of clean water into a dish.)

वस्त्रम्

(અક્ષરપુરુષોત્તમ મહારાજને વસ્ત્ર ધારણ કરાવો અથવા નાડાછડી અર્પણ કરો.)

(Offer clothes or a nadachhadi to Akshar-Purushottam Maharaj.)

दर्शनस्याऽऽनुकूल्याय विविधवर्णसंयुतम्।

वस्त्रं समर्प्यते भक्त्या ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। वस्त्रोपवस्त्रं समर्पयामि।

यज्ञोपवीतम्

(અક્ષરપુરુષોત્તમ મહારાજને જનોઈ અર્પણ કરો.)

(Offer a janoi – a sacred thread – to Akshar-Purushottam Maharaj.)

वेदधर्माऽभिरक्षार्थम् उपवीतं नवं शुभम्।

अर्प्यते यज्ञरूपाय ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। यज्ञोपवीतं समर्पयामि।

चन्दनम्

(અક્ષરપુરુષોત્તમ મહારાજ તથા સર્વ મુક્તોને ચંદનના ચાંદલા કરો.)

(Apply chandan chandlas to Akshar-Purushottam Maharaj and all of the muktas.)

केसरमिश्रितं शीतम् अर्चनाऽऽनन्ददं मृदु।

चन्दनमर्प्यते भक्त्या ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। चन्दनं समर्पयामि।

(સ્વામિનારાયણ ભગવાનના મહિમાના સ્તોત્ર બોલો. સ્તોત્ર માટે પરિશિષ્ટ ૧ જુઓ.)

(Recite the Sanskrit verses extolling the glory of Bhagwan Swaminarayan. See Appendix 1.)

अक्षताः

(અક્ષરપુરુષોત્તમ મહારાજ ઉપર ચોખા પધરાવો.)

(Shower a few rice grains onto Akshar-Purushottam Maharaj.)

अखण्डिताक्षताः शुभ्रा अखण्डभक्तये हृदि।

भक्त्या समर्प्यते शुद्धा ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोनमाय नमः। अक्षतान् समर्पयामि।

पुष्पम्

(અક્ષરપુરુષોત્તમ મહારાજ ઉપર પુષ્પ પધરાવો.)

(Shower some flower petals onto Akshar-Purushottam Maharaj.)

पाटलमुद्‌गरादीनि कर्णिकारं च मल्लिकाः।

अर्प्यन्ते रम्यपुष्पाणि ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। पुष्पाणि समर्पयामि।

तुलसीदलार्पणम्

(અક્ષરપુરુષોત્તમ મહારાજને તુલસી અર્પણ કરો.)

(Offer a tulsi leaf to Akshar-Purushottam Maharaj.)

सर्वसुखकरी पूता सुमञ्जुला सुमञ्जरी।

अर्प्यते तुलसी भक्त्या ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। तुलसीदलं समर्पयामि।

सौभाग्यद्रव्यम्

(અક્ષરપુરુષોત્તમ મહારાજને હળદર, અબીર, ગુલાલ અને કંકુવાળું પુષ્પ અર્પણ કરો.)

(Offer a flower petal dipped into haldar (turmeric powder), abhir, gulal, and kumkum powder to Akshar-Purushottam Maharaj.)

गुलालं कुङ्कुमं रक्तं हरिद्रा पीतवर्णिका।

अर्प्यते धवलाऽबीरं ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। सौभाग्यद्रव्यं समर्पयामि।

धूपः

(અક્ષરપુરુષોત્તમ મહારાજને ધૂપ અર્પણ કરો.)

(Offer incense to Akshar-Purushottam Maharaj.)

घ्राणाऽऽनन्दकरो धूपः प्राणाऽऽनन्दकरस्तथा।

अर्प्यते दिव्यभावेन ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। धूपम् आघ्रापयामि।

दीपः

(અક્ષરપુરુષોત્તમ મહારાજને દીપ અર્પણ કરો.)

(Offer a divo to Akshar-Purushottam Maharaj.)

दिव्यद्युतिमते दीपो दिव्यदर्शनहेतुना।

अर्प्यते दिव्यभावेन ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। दीपं प्रयच्छामि।

दर्शनम्

(અક્ષરપુરુષોત્તમ મહારાજનાં ભાવથી દર્શન કરો.)

(Now, do darshan of Akshar-Purushottam Maharaj with love.)

(स्रग्धरा छन्दः)

दिव्या दिव्या सुदिव्या सकलशुभकरी देहदीप्तिः सुदिव्या,

रम्या रम्या सुरम्या तवमुखकमले राजते श्रीः सुरम्या।

भव्या भव्या सुभव्या विलसति परमा तेऽत्र कीर्तिः सुभव्या,

धन्या धन्याऽद्य दृष्टिर्नयनविषयतां प्राप्य वो मे सुधन्या॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। दिव्यस्वरूपं विलोकयामि।

नैवेद्यम्

तुलसीगन्धपुष्पैश्च अन्नं संपूज्य तुलसीदलेन जलं संप्रोक्ष्य तत्तुलसीदलं नैवेद्योपरि निधाय अस्त्रेण संरक्ष्य धेनुमुद्रया अमृतीकृत्य ग्रासमुद्रया भोजयेत्।

(ચંદન અને પુષ્પથી થાળનું પૂજન કરી, જળ છાંટી, તુલસીપત્ર થાળમાં મૂકીને, અસ્ત્રમુદ્રાથી નૈવેદ્યનું રક્ષણ કરીને, ધેનુમુદ્રા દર્શાવી નૈવેદ્યને અમૃતમય બનાવી અક્ષરપુરુષોત્તમ મહારાજને અર્પણ કરો.)

(Now, sanctify the food offering thal with chandan and flower petals and sprinkle some water on it. Place a tulsi leaf into the thal. Protect the food and sanctify it like amrut and offer it to Akshar-Purushottam Maharaj.)

सुपाच्यं सरसं पथ्यं सुस्वादु विविधं तथा।

नैवेद्यमर्प्यते भक्त्या ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। नैवेद्यं निवेदयामि।

(થાળગાન કરો – ‘મારે ઘેર આવજો છોગલાંધારી...’)

(Sing the thal ‘Māre gher avājo chhoglā-dhāri...’)

(શુદ્ધ જળની ચાર આચમની તરભાણામાં પધરાવો.)

(Pour a spoonful of clean water into the dish four times.)

हस्तप्रक्षालनं समर्पयामि। मुखप्रक्षालनं समर्पयामि। आचमनीयं समर्पयामि। करोद्वर्तनार्थे चन्दनं समर्पयामि।

(નૈવેદ્ય ધરાવ્યા પછી અક્ષરપુરુષોત્તમ મહારાજને ચળું કરાવો તથા હાથને સુવાસિત કરવા ચંદન અર્પણ કરો.)

(After the thal offering, wash Akshar-Purushottam Maharaj’s mouth and offer chandan to make his hands fragrant.)

मुखवासार्थे ताम्बूलम्

नागवल्लीसहितं पूगीफलं समर्पयेत्।

(અક્ષરપુરુષોત્તમ મહારાજને પાનબીડાં અથવા તજ, એલચી, લવિંગ, સોપારી ઇત્યાદિ મુખવાસ ધરાવો.)

(Offer mouth fresheners – such as cinnamon, cardamom, clover, betelnut etc. – to Akshar-Purushottam Maharaj.)

खदिरैलादिसंयुक्तं नागवल्लीदलाऽऽवृतम्।

ताम्बूलमर्प्यते भक्त्या ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। ताम्बूलं समर्पयामि।

फलम्

(અક્ષરપુરુષોત્તમ મહારાજને ફળ અર્પણ કરો.)

(Offer fruit to Akshar-Purushottam Maharaj.)

सफलं जीवनं भूयात् त्वत्प्रसादफलेन मे।

फलं समर्प्यते भक्त्या ब्रह्मणे परब्रह्मणे॥

अनेन फल-दानेन, फलदोऽस्तु सदा मम।

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। फलं समर्पयामि।

दक्षिणा

हस्ते जलमादाय

(હવે યજમાન ભક્તો આ વિધિ નિમિત્તે યથાશક્તિ, યથાશ્રદ્ધા દક્ષિણાનો સંકલ્પ કરે, જમણા હાથમાં જળ રાખે.)

(Now, all participants will make a wish of offering a gift as according to their means by holding a spoonful of water with their right hand.)

सुवर्णं द्रविणं वाऽपि यथाशक्ति धरा धनम्।

अर्प्यते भक्तिभावेन ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। सुवर्णपुष्पदक्षिणां समर्पयामि।

(જળ નીચે પધરાવો.)

(Deposit the water into an empty bowl.)

राजोपचाराः

(અક્ષરપુરુષોત્તમ મહારાજને રાજામહારાજાને યોગ્ય ઉપચારો અર્પણ કરો.)

(Now, we will offer items to Akshar-Purushottam Maharaj that befit a king.)

दिव्या राजोपचारा ये दण्डच्छत्रादयः शुभाः।

अर्प्यन्ते भक्तिभावेन ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। राजोपचारार्थे छत्रं समर्पयामि / भावयामि।

चामरयुगलं समर्पयामि / भावयामि।

दण्डं समर्पयामि / भावयामि।

आदर्शकं समर्पयामि / भावयामि।

रत्नखचितपादुकां समर्पयामि / भावयामि।

वीणा - भेरी - मृदङ्ग - दुन्दुभि - प्रभृति - वाद्यानि, नृत्यगीतं वादित्रादिकं समर्पयामि / भावयामि।

 

जपाभिषेकः – सहजानन्दनामावलिपाठः

हस्ते जलमादाय

(હવે સહજાનંદનામાવલી પાઠનો સંકલ્પ કરવા જમણા હાથમાં જળ રાખો.)

(Now, hold a spoonful of water with our right hand as we commence on chanting the Sahajanand Namavali.)

वन्देऽहं सहजानन्दं सर्वाऽऽनन्दप्रदं हरिम्।

कृपाधृताऽवतारं तं स्वामिनारायणं हृदा॥

अष्टाधिकं शतं नाम्नां तस्य सर्वाऽवतारिणः।

वक्ष्यामि सर्वसिद्ध्यर्थम् अक्षराधिपतेः शुभम्॥

अस्य अष्टाऽधिकशतसहजानन्दनामावलिस्तोत्रमन्त्रस्य प्रकटाऽक्षरब्रह्म गुणातीतो गुरुः ऋषिः। अनुष्टुप् छन्दः। स्वामिनारायणो देवता। अक्षरपुरुषोत्तम इति बीजम्। ब्रह्मद्वारकप्राकट्यः इति शक्तिः। प्रस्थापितस्वसिद्धान्त इति कीलकम्। अस्य चतुर्वर्गसिद्ध्यर्थे तथा च, [_______________] सिद्ध्यर्थे जपे विनियोगः।

(જળ નીચે પધરાવી દો.)

(Deposit the water into an empty bowl.)

ध्यानम्

(હવે અક્ષરપુરુષોત્તમ મહારાજનું ધ્યાન કરીએ.)

(Now, we will meditate upon Akshar-Purushottam Maharaj.)

(शिखरिणी छन्दः)

सदा चित्ताऽऽकर्षं वदनकमलं शान्तिसदनं,

दयाराशिः साक्षाद् भरितकरुणं नेत्रयुगलम्।

प्रसन्नं रम्यं च रसितहसनं दुःखहरणम्,

अहो ध्येयं दिव्यं सुखदसहजानन्दसकलम्॥

(હવે સહજાનંદ શ્રીહરિનાં કલ્યાણકારી ૧૦૮ નામનો જપાભિષેક શરૂ થાય છે, તો દરેક નામને અંતે સૌ ‘નમઃ’નો ઉદ્‌ઘોષ કરી, ચોખાના બે-બે દાણા અક્ષરપુરુષોત્તમ મહારાજ ઉપર પધરાવો.)

(Now, we will commence the chanting of the 108 holy names of Shri Hari Sahajanand Swami. At then end of each name, we will echo with ‘namaha’ and shower 2 grains of rice onto Akshar-Purushottam Maharaj.)

१. ॐ श्रीस्वामिनारायणाय नमः ।

२. ॐ श्रीसाक्षादक्षरपुरुषोत्तमाय नमः ।

३. ॐ श्रीपरमात्मने नमः ।

४. ॐ श्रीपरब्रह्मणे नमः ।

५. ॐ श्रीभगवते नमः ।

६. ॐ श्रीपुरुषोत्तमाय नमः ।

७. ॐ श्रीअक्षरधामवासाय नमः ।

८. ॐ श्रीदिव्यसुन्दरविग्रहाय नमः ।

९. ॐ श्रीसाकाराय नमः ।

१०. ॐ श्रीद्विभुजाय नमः ।

११. ॐ श्रीअनादये नमः ।

१२. ॐ श्रीसाकाराऽक्षरसेविताय नमः ।

१३. ॐ श्रीदिव्यासनोपविष्टाय नमः ।

१४. ॐ श्रीअनन्तमुक्तपूजिताय नमः ।

१५. ॐ श्रीसर्वकरणशक्ताय नमः ।

१६. ॐ श्रीसमर्थाय नमः ।

१७. ॐ श्रीभक्तिनन्दनाय नमः ।

१८. ॐ श्रीदिव्यजन्मने नमः ।

१९. ॐ श्रीमहाराजाय नमः ।

२०. ॐ श्रीदिव्यकर्मणे नमः ।

२१. ॐ श्रीमहामतये नमः ।

२२. ॐ श्रीनारायणाय नमः ।

२३. ॐ श्रीघनश्यामाय नमः ।

२४. ॐ श्रीनीलकण्ठाय नमः ।

२५. ॐ श्रीतपःप्रियाय नमः ।

२६. ॐ श्रीअनासक्ताय नमः ।

२७. ॐ श्रीतपस्विने नमः ।

२८. ॐ श्रीअलिप्ताय नमः ।

२९. ॐ श्रीभक्तवत्सलाय नमः ।

३०. ॐ श्रीनैकमोक्षार्थयात्राय नमः ।

३१. ॐ श्रीसर्वात्मने नमः ।

३२. ॐ श्रीदिव्यताप्रदाय नमः ।

३३. ॐ श्रीस्वेच्छाधृताऽवताराय नमः ।

३४. ॐ श्रीसर्वाऽवतारकारणाय नमः ।

३५. ॐ श्रीईश्वरेशाय नमः ।

३६. ॐ श्रीस्वयंसिद्धाय नमः ।

३७. ॐ श्रीभक्तसंकल्पपूरकाय नमः ।

३८. ॐ श्रीसंतीर्णसरयूवारये नमः ।

३९. ॐ श्रीहिमगिरिवनप्रियाय नमः ।

४०. ॐ श्रीपुलहाश्रमवासिने नमः ।

४१. ॐ श्रीपवित्रीकृतमानसाय नमः ।

४२. ॐ श्रीसाक्षराय नमः ।

४३. ॐ श्रीसहजानन्दाय नमः ।

४४. ॐ श्रीसर्वानन्दप्रदाय नमः ।

४५. ॐ श्रीप्रभवे नमः ।

४६. ॐ श्रीप्रणीतदिव्यसत्सङ्गाय नमः ।

४७. ॐ श्रीहरिकृष्णाय नमः ।

४८. ॐ श्रीसुखाश्रयाय नमः ।

४९. ॐ श्रीसर्वज्ञाय नमः ।

५०. ॐ श्रीसर्वकर्त्रे नमः ।

५१. ॐ श्रीसर्वभर्त्रे नमः ।

५२. ॐ श्रीनियामकाय नमः ।

५३. ॐ श्रीसदासर्वसमुत्कृष्टाय नमः ।

५४. ॐ श्रीशाश्वतशान्तिदायकाय नमः ।

५५. ॐ श्रीधर्मसुताय नमः ।

५६. ॐ श्रीसदाचारिणे नमः ।

५७. ॐ श्रीसदाचारप्रवर्तकाय नमः ।

५८. ॐ श्रीसधर्मभक्तिसंगोप्त्रे नमः ।

५९. ॐ श्रीदुराचारविदारकाय नमः ।

६०. ॐ श्रीदयालवे नमः ।

६१. ॐ श्रीकोमलात्मने नमः ।

६२. ॐ श्रीपरदुःखाऽसहाय नमः ।

६३. ॐ श्रीमृदवे नमः ।

६४. ॐ श्रीसंत्यक्तसर्वथाहिंसाय नमः ।

६५. ॐ श्रीहिंसावर्जितयागकृते नमः ।

६६. ॐ श्रीसकलवेदवेद्याय नमः ।

६७. ॐ श्रीवेदसत्यार्थबोधकाय नमः ।

६८. ॐ श्रीवेदज्ञाय नमः ।

६९. ॐ श्रीवेदसाराय नमः ।

७०. ॐ श्रीवैदिकधर्मरक्षकाय नमः ।

७१. ॐ श्रीदिव्यचेष्टाचरित्राय नमः ।

७२. ॐ श्रीसर्वकारणकारणाय नमः ।

७३. ॐ श्रीअन्तर्यामिणे नमः ।

७४. ॐ श्रीसदादिव्याय नमः ।

७५. ॐ श्रीब्रह्माऽधीशाय नमः ।

७६. ॐ श्रीपरात्पराय नमः ।

७७. ॐ श्रीदर्शिताऽक्षरभेदाय नमः ।

७८. ॐ श्रीजीवेशभेददर्शकाय नमः ।

७९. ॐ श्रीमायानियामकाय नमः ।

८०. ॐ श्रीपञ्चतत्त्वप्रकाशकाय नमः ।

८१. ॐ श्रीसर्वकल्याणकारिणे नमः ।

८२. ॐ श्रीसर्वकर्मफलप्रदाय नमः ।

८३. ॐ श्रीसकलचेतनोपास्याय नमः ।

८४. ॐ श्रीशुद्धोपासनबोधकाय नमः ।

८५. ॐ श्रीअक्षराधिपतये नमः ।

८६. ॐ श्रीशुद्धाय नमः ।

८७. ॐ श्रीशुद्धभक्तिप्रवर्तकाय नमः ।

८८. ॐ श्रीस्वामिनारायणेत्याख्य-दिव्यमन्त्रप्रदायकाय नमः ।

८९. ॐ श्रीस्वप्रतिमाप्रतिष्ठाकृते नमः ।

९०. ॐ श्रीस्वसम्प्रदायकारकाय नमः ।

९१. ॐ श्रीप्रस्थापितस्वसिद्धान्ताय नमः ।

९२. ॐ श्रीब्रह्मज्ञानप्रकाशकाय नमः ।

९३. ॐ श्रीगुणातीतोक्तमाहात्म्याय नमः ।

९४. ॐ श्रीअक्षराऽऽत्मैक्यप्रबोधकाय नमः ।

९५. ॐ श्रीमूलाक्षरगुणातीतस्वरूप-परिचायकाय नमः ।

९६. ॐ श्रीभक्तिलभ्याय नमः ।

९७. ॐ श्रीकृपासाध्याय नमः ।

९८. ॐ श्रीभक्तदोषनिवारकाय नमः ।

९९. ॐ श्रीशास्त्रिस्थापितसब्रह्म-धातुमूर्तये नमः ।

१००. ॐ श्रीअलौकिकाय नमः ।

१०१. ॐ श्रीब्रह्मद्वारकप्राकट्याय नमः ।

१०२. ॐ श्रीसम्यगक्षरसंस्थिताय नमः ।

१०३. ॐ श्रीसमाधिकारकाय नमः ।

१०४. ॐ श्रीनिखिलपापनाशकाय नमः ।

१०५. ॐ श्रीसर्वतन्त्रस्वतन्त्राय नमः ।

१०६. ॐ श्रीमायिकगुणवर्जिताय नमः ।

१०७. ॐ श्रीदिव्याऽनन्तगुणाय नमः ।

(હવે શ્રીહરિના છેલ્લા ૧૦૮મા નામમંત્રના પ્રારંભમાં લાંબો શ્વાસ ભરી ૐકારનો દીર્ઘનાદ કરીએ.)

(Now, prior to saying the 108th name, we will take a deep breath and say an extended ‘aum’.)

१०८. ॐ श्रीअनन्तनाम्ने नमः ।

ॐ श्रीअक्षरपुरुषोत्तममहाराजाय नमः ।

ॐ श्रीगुणातीतानन्दस्वामिमहाराजाय नमः ।

ॐ श्रीभगतजीमहाराजाय नमः ।

ॐ श्रीशास्त्रिजीमहाराजाय नमः ।

ॐ श्रीयोगिजीमहाराजाय नमः ।

ॐ श्रीप्रमुखस्वामिमहाराजाय नमः ।

ॐ श्रीमहन्तस्वामिमहाराजाय नमः ।

नाम्नामष्टाधिकेनैवं शतेन कीर्तितो हरिः।

सर्वदुःखविनाशाय दिव्यानन्दाप्तये तथा॥

इत्थं यः सहजानन्द-नामावलीं पठेत् सदा।

नूनं तस्मिन् प्रसन्नः स्याद् अक्षरपुरुषोत्तमः॥

इति अष्टाधिकशतसहजानन्दनामावलिस्तोत्रं सम्पूर्णम्।

 

नामरटनम्

श्रीहरिः सहजानन्दः स्वयमुपदिदेश यम्।

स्वामिनारायणं मन्त्रं गर्भितं ब्रह्मविद्यया॥

अक्षरं ब्रह्म विज्ञेयं मन्त्रे स्वामीतिशब्दतः।

नारायणेति शब्देन तत्परः पुरुषोत्तमः॥

मन्त्रपाठाद्धि सर्वेषां सर्वदुःखविदारणम्।

सर्वसुखसमावाप्तिः शान्तिश्चात्मनि सर्वदा॥

स्वामिनारायणं मन्त्रम् उच्चैर्यो भावतः पठेत्।

स्वामिनारायणः तस्मै सर्वार्थसिद्धिदो भवेत्॥

(શાશ્વત તથા પ્રાસંગિક સંકલ્પો કરી સ્વામિનારાયણ મહામંત્રની ધૂન કરો.)

(Now, we will chant the Swaminarayan Mahamantra for the fulfilment of long-term and short-term wishes.)

 

नीराजनम्

नीराजनीं प्रज्वाल्य गन्धाक्षतपुष्पैः संपूज्य आरार्तिक्यं कुर्यात्।

(આરતી પ્રગટાવી, ચંદન-ચોખા-પુષ્પથી પૂજન કરી આરતી ઉતારો.)

(We will light the arti, offer chandan, rice, and flowers and then sing the arti.)

ओजस्तेजोमयं भव्यं दिव्यं रूपं तवेक्षितुम्।

दत्तं नीराजनं दीप्तं ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। आरार्तिक्यं समर्पयामि।

(આરતીગાન કરીએ.)

જય સ્વામિનારાયણ, જય અક્ષરપુરુષોત્તમ,

અક્ષરપુરુષોત્તમ જય, દર્શન સર્વોત્તમ..... જય સ્વામિનારાયણ....ટેક

મુક્ત અનંત સુપૂજિત, સુંદર સાકારમ્,

સર્વોપરી કરુણાકર, માનવ તનુધારમ્... જય સ્વામિનારાયણ.....૧.

પુરુષોત્તમ પરબ્રહ્મ, શ્રીહરિ સહજાનંદ,

અક્ષરબ્રહ્મ અનાદિ, ગુણાતીતાનંદ...... જય સ્વામિનારાયણ....૨.

પ્રકટ સદા સર્વકર્તા, પરમ મુક્તિદાતા,

ધર્મ એકાંતિક સ્થાપક, ભક્તિ પરિત્રાતા..... જય સ્વામિનારાયણ...૩.

દાસભાવ દિવ્યતા સહ, બ્રહ્મરૂપે પ્રીતિ,

સુહૃદભાવ અલૌકિક, સ્થાપિત શુભ રીતિ.... જય સ્વામિનારાયણ...૪.

ધન્ય ધન્ય મમ જીવન, તવ શરણે સુફલમ્,

યજ્ઞપુરુષ પ્રવર્તિત સિદ્ધાન્તં સુખદમ્....... જય સ્વામિનારાયણ,

જય અક્ષરપુરુષોત્તમ,

જય સ્વામિનારાયણ....૫.

त्रिवारं जलैः प्रदक्षिणीकृत्य पुष्पैः अक्षरपुरुषोत्तमाभिवन्दनं कुर्यात्। ततः हस्तं प्रक्षालयेत्।

(શંખજળથી ત્રણ વાર આરતીની પ્રદક્ષિણા કરીને તથા પુષ્પ વડે એક વાર આરતીની પ્રદક્ષિણા કરીને, તે પુષ્પ ભગવાનને અર્પણ કરી દો, અને હાથ ધોઈ નાંખો.)

(Protect the aura of the arti by circling it with water 3 times, then once with a flower petal and offer the flower petal to God. Then wash your hands.)

दीप्यसे सहजानन्द! दिव्यज्योतिः समुज्ज्वलः।

देदीप्यमानरूपस्त्वं भास्वदक्षरसंस्थितः॥

साष्टाङ्गनमस्कारविधिः

साष्टाङ्गा दण्डवद् भक्त्या दिव्ये त्वच्चरणाम्बुजे।

समर्प्यन्ते प्रणामा मे ब्रह्मणे परब्रह्मणे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। साष्टाङ्गनमस्कारान् समर्पयामि। (मनसा परिकल्पयामि वा।)

(‘કૃપા કરો મુજ ઉપરે...’ બોલતાં બોલતાં છ દંડવત્ કરવા.)

(Offer 6 prostration while singing ‘Krupa karo muj upare…’)

प्रदक्षिणा

(હવે અક્ષરપુરુષોત્તમ મહારાજને ૫ અથવા ૧૧ પ્રદક્ષિણા કરીએ.)

(Now, perform 5 or 11 pradakshinas to Akshar-Purushottam Maharaj.)

सुदूरं दुर्गुणाद् यामि सामीप्यं ते पदे पदे।

प्रदक्षिणाऽर्प्यते भक्त्या ब्रह्मणे परब्रह्मणे॥

सर्वेषां केन्द्रभूतस्त्वम् अक्षरपुरुषोत्तम।

त्वमेव भव मत्केन्द्रे प्रार्थयेऽहं पदे पदे॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। प्रदक्षिणां समर्पयामि। (मनसा परिकल्पयामि वा।)

मन्त्रपुष्पाञ्जलिः

हस्ते पुष्पाणि आदाय

(જમણા હાથમાં પુષ્પ રાખો.)

(Hold some flower petals in your right hand.)

रक्तैः श्वेतैश्चपीतैर्नयनसुखकरैः पाटलैर्नैकवर्णैः,

कुन्दैरामोदराजैः सुविकसितदलैश्चन्द्रशुभ्रैः सुरम्यैः।

युक्तो यः सेवतीभिः सुरभितबकुलैर्मल्लिकामालतीभिः,

पुष्पाणामञ्जलिस्ते सुरचितसरसो दीयते भक्तिभव्यः॥

(द्रुतविलम्बितं छन्दः)

विविधपाटल-मुद्‌गर-मल्लिका कमलचम्पकगन्धसुमिश्रितम्।

कुसुम-सुन्दरराजित-विग्रहं स्मर मनः पुरुषोत्तममक्षरम्॥

मन्त्रः –

ज्ञेन यज्ञमयजन्त देवास्तानि धर्म्माणि प्रथमान्यासन्।

ते ह नाकम्महिमानः सचन्त त्र पूर्वे साध्याः सन्ति देवाः॥

(शुक्लयजुर्वेद: ३१/१६)

मन्त्रः –

ॐ राजाधिराजाय प्रसह्य साहिने। नमो वयं वैश्रवणाय कुर्महे।

स मे कामान् कामकामाय मह्यम्। कामेश्वरो वैश्रवणो ददातु।

कुबेराय वैश्रवणाय महाराजाय नमः॥

(तैत्तिरीय-आ. १/३१)

मन्त्रः –

ॐ स्वस्ति। साम्राज्यं, भौज्यं, स्वाराज्यं, वैराज्यं, पारमेष्ठ्यं, राज्यं, महाराज्यम् आधिपत्यमयं, समन्तपर्यायी, स्यात् सार्वभौमः, सार्वायुषऽआन्तादा-परार्धात्। पृथिव्यै समुद्र-पर्यन्तायाऽएकराडिति॥

(ऐतरेय-ब्राह्मणम् ८/४/१५)

मन्त्रः –

तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे।

आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति॥

(ऐ.ब्रा. ८/४/२१)

मन्त्रः –

हरिः ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात।

सम्बाहुभ्यान् धमति सम्पतत्रै र्द्यावा भूमी जनयन्देवऽएकः॥

(शुक्लयजुर्वेद: १७/१९)

ॐ सहजानन्दाय विद्महे। सहाक्षराय धीमहि। तन्नो हरिः प्रचोदयात्।

ॐ श्रीअक्षरपुरुषोत्तमाय भक्तमण्डलसहिताय इमं मन्त्रपुष्पाञ्जलिं समर्पयामि।

(અક્ષરપુરુષોત્તમ મહારાજને પુષ્પાંજલિ અર્પણ કરો.)

(Offer the flower petals to Akshar-Purushottam Maharaj.)

प्रार्थनापूर्वकनमस्काराः

अञ्जलिं बद्ध्वा अक्षरपुरुषोत्तममहाराजं प्रार्थयेत।

(બે હાથ જોડીને અક્ષરપુરુષોત્તમ મહારાજની પ્રાર્થના કરીએ.)

(Offer a prayer to Akshar-Purushottam Maharaj with folded hands.)

नमस्ते सहजानन्द गुणातीत नमोऽस्तु ते।

नमोऽस्तु गुरवे भक्त्या प्रत्यक्षब्रह्मणे सदा॥

अक्षररूपता यत्र राजते त्वदुपासने।

सदैव दिव्यभावश्च नयनगोचरे त्वयि॥

उत्तमं निर्विकल्पं तं त्वदीयं निश्चयं परम्।

स्थापय सहजानन्द मयि त्वं पुरुषोत्तम॥

भक्तिमेकान्तिकीं देहि त्वयि माहात्म्यमण्डिताम्।

परमां पूरय प्रीतिं मयि ब्रह्मगुणात्मिकाम्॥

अनासक्तिस्त्वदन्यत्र समासक्तिः सदा त्वयि।

दीनदासाय देहि त्वम् अक्षरपुरुषोत्तम॥

सत्सङ्गे तव भक्ता ये भक्त्या त्वां पर्युपासते।

न तद् द्रोहम् अहं कुर्यां दोषबुद्ध्या कदाचन॥

तव योगं ब्रह्मयोगं भक्तयोगं च सर्वदा।

देहि मे दिव्यसत्सङ्गं यत्र सुखम् अमायिकम्॥

त्वद्‌दासदासदासानां दासानां दासकिङ्करः।

एवं विलसतां नित्यं दासत्ववैभवो मयि॥

ॐ श्रीस्वामिनारायणाय नमः। अक्षरपुरुषोत्तमाय नमः। प्रार्थनापूर्वकनमस्कारान् समर्पयामि।

 

कर्तृत्वादिमननम्

अक्षरपुरुषोत्तममहाराजं विलोकयन् अञ्जलिं बद्ध्वा तत्कर्तृत्वादिमननं कुर्याद्।

(બે હાથ જોડી અક્ષરપુરુષોત્તમ મહારાજને નિરખતાં તેમનાં કર્તાપણાનું, પ્રાપ્તિનું તથા રાજીપાનું મનન કરીએ.)

(With folded hands, observe Akshar-Purushottam Maharaj while contemplating on his doer-ship, his rare attainment, and attaining his pleasure.)

धर्ताऽसि सर्वकर्ताऽसि हर्ताऽसि सर्वकारण!।

भर्ताऽसि रक्षिताऽसि त्वम् अक्षरपुरुषोत्तम!॥

धन्योऽस्मि कृतकृत्योऽस्मि महद्भाग्यमहो मम।

इहैव मिलितौ साक्षाद् अक्षरपुरुषोत्तमौ॥

दर्शनं श्रवणं साक्षात् प्रसादः स्पर्शनं तव।

कृपया लभ्यते नित्यं सुखं शान्तिश्च शाश्वती॥

कुतो भयं कुतश्चिन्ता कुतोऽज्ञानं च संशयः।

कुतो दारिद्र्यदुःखं मे स्वामिनारायणाऽऽश्रयात्॥

प्रसन्नतां सदा याचे कल्याणकारिणीं तव।

प्रसन्नं त्वामहं कुर्याम् अक्षरपुरुषोत्तम॥

क्षमापनम्

अञ्जलिं बद्ध्वा क्षमा याचेत।

(હાથ જોડીને ક્ષમા માગીએ.)

(With folded hands, ask for forgiveness.)

स्थानं सर्वक्षतीनां प्रतिपदकरणाद् दोषभागल्पबुद्धिः,

स्वीकृत्याद्यन्तरात्माऽभिलषति हृदये क्षम्यतां क्षम्यतां मे।

त्वं हि त्वं हि त्वमेव मम सकलगतिराश्रितोहं तवाङ्घ्रौ,

भद्रं भूयात्सदा मे प्रकटगुरुहरेऽकिञ्चनोऽहं ह्यनन्यः॥

मनसोऽनवधानान्मे भावदारिद्र्यतस्तथा।

अज्ञानादलसत्वाद्वा देहभावादिदोषतः॥

पूजने मत्कृताः सर्वाः क्षम्यन्तां क्षतयस्त्वया।

त्वमेव मम सर्वस्वम् अक्षरपुरुषोत्तम॥

सम्पूर्णतावाचनम्

संकल्पः

हस्ते जलमादाय

(જમણા હાથમાં જળ રાખી મહાપૂજાની પૂર્ણતાનો સંકલ્પ કરીએ.)

(Now, hold a spoonful of water with your right hand and make a wish upon completion of the mahapuja.)

अपूर्णं पूजने यद् यत् पूर्णं त्वत्कृपया भवेत्।

पूर्णः पूर्णत्वदायी त्वम् अक्षरपुरुषोत्तम!॥

अद्यात्र मासोत्तमे मासे, __________ मासे, [शुक्ले/कृष्णे] पक्षे, __________ तिथौ, __________ वासरे यथाज्ञानेन यथामिलितोपचारद्रव्यैः, ध्यानावाहनादि-षोडशोपचारैः, अन्योपचारैश्च, __________ निमित्ते, मया आचरिते अस्मिन् श्रीमहापूजा-आख्यकर्मणि, यन्-न्यूनातिरिक्तं तत्सर्वं भवतां गुरुवर्याणां वचनात्, तथा च सतां वचनात्, सर्वं परिपूर्णम् अस्तु। अस्तु परिपूर्णम्।

(જળ નીચે પધરાવો.)

(Deposit the water into an empty bowl.)

अर्पणम्

संकल्पः

हस्ते जलमादाय

(હવે અક્ષરપુરુષોત્તમ મહારાજની પ્રસન્નતા માટે સર્વકર્મ સમર્પણનો સંકલ્પ કરીએ. જમણા હાથમાં જળ રાખો.)

(Now, while holding a spoonful of water with your right hand, we will make a wish for earning the pleasure of Akshar-Purushottam Maharaj.)

कृतं यत् क्रियते यच्च यदेवाऽग्रे करिष्यते।

सर्वं समर्प्यते भक्त्या ब्रह्मणे परब्रह्मणे॥

ॐ तत् सत् कर्म अक्षरपुरुषोत्तमार्पणमस्तु।

अनेन यथाशक्ति यथाज्ञानेन यथामिलितोपचारद्रव्यैः, ध्यान-आवाहन-आसन-पाद्य-अर्घ्य-आचमनीय-स्नान-वस्त्र-उपवीत-गन्ध-पुष्प-धूप-दीप-नैवेद्य-ताम्बूल-दक्षिणा-नमस्कार-प्रदक्षिणा-मन्त्रपुष्परूपैः पोडशोपचारैः, अन्योपचारैश्च, _________________ निमित्ते, कृतेन श्रीमहापजा-आख्येन कर्मणा, परब्रह्मस्वामिनारायणः, अक्षरब्रह्म-श्रीगुणातीतानन्दस्वामी, गरुहरिः श्रीप्रमखस्वामिमहाराजः, प्रकटगुरुहरिः श्रीमहन्तस्वामिमहाराजः, आवाहिताऽक्षरमुक्ताश्च प्रीयन्तां, न मम।

(જળ નીચે પધરાવો.)

(Deposit the water into an empty bowl.)

आशीर्वादाः

हस्ते अक्षतान् आदाय यजमानशिरसि प्रक्षिपेत्।

(યજમાન-ભક્તો ઉપર અક્ષરપુરુષોત્તમ મહારાજના પ્રસાદીભૂત ચોખા પધરાવો.)

(Now, shower the participants with rice grains sanctified by Akshar-Purushottam Maharaj.)

मन्त्रः –

ॐ श्री र्वर्चस्वम् आयुष्यम् आरोग्यम् आविधाच्, छोभमानं महीयते। धान्यं धनं पशुं बहुपुत्रलाभं, शतसंवत्सरं दीर्घमायुः॥

(ऋग्वेद-परिशिष्ट-खिलसूक्तम् - ११)

नश्यतु रोगिणां रोगः क्लेशः क्लेशवतां व्रजेत्।

निर्धनः सधनो भूयाद् निर्बलः शक्तिमान् भवेत्॥

माता पिता च पुत्री च मातामहः पितामहः।

पुत्रः कुटुम्बिनो मित्रं भवेयुः सुखिनः सदा॥

श्रद्धाऽपि भवतु शुद्धा स्वामिनारायणे परा।

अन्धश्रद्धा भवेन्नष्टा कुशङ्का गच्छतु सदा॥

सत्सङ्गो वर्धतां जीवे निष्ठाऽऽश्रयश्च निश्चयः।

स्वामिनारायणे नित्यम् अक्षरपुरुषोत्तमे॥

भयं च कालकर्मादेरभिचारादिभीस्तथा।

नश्यतु निष्ठया सर्वम् अक्षरपुरुषोत्तमे॥

वर्तनेऽस्तु सदाचारो दुराचारोऽपगच्छतु।

भक्तिर्धर्ममयी भूयाद् स्वामिनारायणे हरौ॥

अनन्यभावतः शुद्धं ब्रह्मरूपत्वमण्डितम्।

प्रत्यक्षभावतो दिव्यं भवेत् प्रभोरुपासनम्॥

विसर्जनम्

हस्ते पुष्पाणि अक्षताँश्च आदाय

(વિસર્જન કરવા જમણા હાથમાં પુષ્પ તથા ચોખા રાખો.)

(To complete the mahapuja, we will hold some flower petals and rice grains in our right hand.)

હે મહારાજ! આપ આપના અક્ષરધામ અને મુક્તમંડળ સહિત, આજે મહાપૂજામાં પધાર્યા છો, તો આ મહાપૂજામાં કાંઈ ભૂલચૂક થઈ હોય તો તે બદલ ક્ષમા યાચું છું, અને હવે આપ અમારા હૃદયાકાશમાં બિરાજમાન થાવ અને ફરી પાછા મહાપૂજામાં વહેલા વહેલા પધારશો.

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।

गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥

समुक्तमण्डलोऽक्षरपुरुषोत्तममहाराजो मदात्मस्थो भवतु।

आवाहिताश्चान्ये स्वस्थानं गच्छत। शुभे कर्मणि पुनरागमनम् अस्तु।

(પુષ્પ તથા ચોખા અક્ષરપુરુષોત્તમ મહારાજ ઉપર પધરાવો.)

(Shower the flower petals and rice grains onto Akshar-Purushottam Maharaj.)

 

प्रासादिकपुष्पादिस्वीकरणम्

पूजाप्रसादितं पुष्पाऽक्षतजलादिकं स्वीकुर्यात्।

(પૂજાનાં પ્રસાદીભૂત પુષ્પ, અક્ષત અને જળ મસ્તકે ચઢાવીએ.)

(Shower the sanctified flower petals, rice, and water onto your head.)

स्वीकृत्य पूजने पूतं पुष्पाऽक्षतजलादिकम्।

धन्यतामेमि निःशङ्कम् अक्षरपुरुषोत्तम॥

जयस्ते सहजानन्द! गुणातीत! जयोऽस्तु ते।

जयस्ते विजयो नित्यं जयो जयो जयो जयः॥

ॐ शान्तिः शान्तिः शान्तिः। सुशान्तिर्भवतु। सर्वारिष्टशान्तिर्भवतु।

इति श्रीस्वामिनारायणमहापूजा समाप्ता।

(ઉચ્ચ સ્વરે જયનાદ કરવો.)

(Say the jaynad loudly.)

SECTION

પ્રકાશકીય

શ્રી મહાપૂજા

मङ्गलम्

आचमनम्

प्राणायामः

शान्तिपाठः

स्वस्तिवाचनम्

कङ्‌कणबन्धनम्

अक्षरपुरुषोत्तमाऽभिवन्दनम्

प्रधानसङ्कल्पः

दिग्रक्षणम्

कलशोपस्थापनम्

मार्जनम्

दीपादि-उपस्थापनम्

श्रीस्वामिनारायणपूजनम्

न्यासविधिः

संकल्पः

ध्यानम्

आवाहनं स्थापनं च

आसनम्

पाद्यम्

अर्घ्यम्

आचमनीयम्

स्नानम्

एकतन्त्रेण मिलितपञ्चामृत-स्नानविधिः

पृथक् पृथङ्मन्त्रेण पञ्चामृत-स्नानविधिः

जपाभिषेकः – सहजानन्दनामावलिपाठः

नामरटनम्

नीराजनम्

साष्टाङ्गनमस्कारविधिः

प्रदक्षिणा

मन्त्रपुष्पाञ्जलिः

प्रार्थनापूर्वकनमस्काराः

कर्तृत्वादिमननम्

सम्पूर्णतावाचनम्

अर्पणम्

आशीर्वादाः

विसर्जनम्

प्रासादिकपुष्पादिस्वीकरणम्

श्रीहरिप्रार्थनास्तोत्रम्

भक्तिदेवीकृतस्तुतिः

बोचासणमन्दिरप्रतिष्ठान्ते ब्रह्मस्वरूपशास्त्रिमहाराजकृतस्तुतिः

सहजानन्दनामावलिस्तोत्रम्

पारायणपूजनविधिः।

स्वस्तिवाचनम्

अक्षरपुरुषोत्तमाऽभिवन्दनम्

प्रधानसङ्कल्पः

ध्यानम्

आवाहनं स्थापनं च

नीराजनम्

प्रार्थनापूर्वकनमस्काराः

विसर्जनम्

प्रासादिकपुष्पादिस्वीकरणम्

पारायण-पूर्णाहुति-संकल्पः

પરિશિષ્ટ ૧ - સ્તોત્રો

પરિશિષ્ટ ૨ - સહજાનંદનામાવલિ સ્તોત્રમ્

પરિશિષ્ટ ૩ - પારાયણ પૂજનવિધિ

પરિશિષ્ટ ૪ - માસ, તિથિ તથા વારનાં સંસ્કૃત નામો

પરિશિષ્ટ ૫ - મહાપૂજાવિધિની સામગ્રી

પરિશિષ્ટ ૬ - મહાપૂજાવિધિનું મંડળપટ