શ્રીમદ્‌ભાગવતપુરાણ

अथ चतुर्दशोऽध्यायः

श्रीराजोवाच

मन्वन्तरेषु भगवन्यथा मन्वादयस्त्विमे

यस्मिन्कर्मणि ये येन नियुक्तास्तद्वदस्व मे १

श्रीऋषिरुवाच

मनवो मनुपुत्राश्च मुनयश्च महीपते

इन्द्राः! सुरगणाश्चैव सर्वे पुरुषशासनाः २

यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप

मन्वादयो जगद्यात्रां नयन्त्याभिः प्रचोदिताः ३

चतुर्युगान्ते कालेन ग्रस्तान्छ्रुतिगणान्यथा

तपसा ऋषयोऽपश्यन्यतो धर्मः सनातनः ४

ततो धर्मं चतुष्पादं मनवो हरिणोदिताः

युक्ताः सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप ५

पालयन्ति प्रजापाला यावदन्तं विभागशः

यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः ६

इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम्

भुञ्जानः पाति लोकांस्त्रीन्कामं लोके प्रवर्षति ७

ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक्

ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ८

सर्गं प्रजेशरूपेण दस्यून्हन्यात्स्वराड्वपुः

कालरूपेण सर्वेषामभावाय पृथग्गुणः ९

स्तूयमानो जनैरेभिर्मायया नामरूपया

विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते १०

एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम्

यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविदः ११

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे चतुर्दशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः