શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वादशोऽध्यायः

श्रीनारद उवाच

ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम्

आचरन्दासवन्नीचो गुरौ सुदृढसौहृदः १

सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान्

सन्ध्ये उभे च यतवाग्जपन्ब्रह्म समाहितः २

छन्दांस्यधीयीत गुरोराहूतश्चेत्सुयन्त्रितः

उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ३

मेखलाजिनवासांसि जटादण्डकमण्डलून्

बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ४

सायं प्रातश्चरेद्भैक्ष्यं गुरवे तन्निवेदयेत्

भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत्क्वचित् ५

सुशीलो मितभुग्दक्षः श्रद्दधानो जितेन्द्रि यः

यावदर्थं व्यवहरेत्स्त्रीषु स्त्रीनिर्जितेषु च ६

वर्जयेत्प्रमदागाथामगृहस्थो बृहद्व्रतः

इन्द्रि याणि प्रमाथीनि हरन्त्यपि यतेर्मनः ७

केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम्

गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ८

नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान्

सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ९

कल्पयित्वात्मना यावदाभासमिदमीश्वरः

द्वैतं तावन्न विरमेत्ततो ह्यस्य विपर्ययः १०

एतत्सर्वं गृहस्थस्य समाम्नातं यतेरपि

गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ११

अञ्जनाभ्यञ्जनोन्मर्द स्त्र्! यवलेखामिषं मधु

स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्व्रताः १२

उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च

त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् १३

दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः

गृहं वनं वा प्रविशेत्प्रव्रजेत्तत्र वा वसेत् १४

अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम्

भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् १५

एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही

चरन्विदितविज्ञानः परं ब्रह्माधिगच्छति १६

वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान्

यानास्थाय मुनिर्गच्छेदृषिलोकमुहाञ्जसा १७

न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः

अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् १८

वन्यैश्चरुपुरोडाशान्निर्वपेत्कालचोदितान्

लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् १९

अग्न्यर्थमेव शरणमुटजं वाद्रि कन्दरम्

श्रयेत हिमवाय्वग्नि वर्षार्कातपषाट्स्वयम् २०

केशरोमनखश्मश्रु मलानि जटिलो दधत्

कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् २१

चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनिः

द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः २२

यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा

आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् २३

आत्मन्यग्नीन्समारोप्य सन्न्यस्याहं ममात्मताम्

कारणेषु न्यसेत्सम्यक्सङ्घातं तु यथार्हतः २४

खे खानि वायौ निश्वासांस्तेजःसूष्माणमात्मवान्

अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् २५

वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि

पदानि गत्या वयसि रत्योपस्थं प्रजापतौ २६

मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत्

दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् २७

रूपाणि चक्षुषा राजन्ज्योतिष्यभिनिवेशयेत्

अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् २८

मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे

कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया

सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे २९

अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम्

कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ३०

इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम्

ज्ञात्वाद्वयोऽथ विरमेद्दग्धयोनिरिवानलः ३१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः