☰ select

अथ षड्विंशोऽध्यायः

नारद उवाच

स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम्

द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् १

एकरश्म्येकदमनमेकनीडं द्विकूबरम्

पञ्चप्रहरणं सप्त वरूथं पञ्चविक्रमम् २

हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः

एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम् ३

चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः

विहाय जायामतदर्हां मृगव्यसनलालसः ४

आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः

न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् ५

तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान्पशून्वने

यावदर्थमलं लुब्धो हन्यादिति नियम्यते ६

य एवं कर्म नियतं विद्वान्कुर्वीत मानवः

कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ७

अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते

गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः ८

तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः

विप्लवोऽभूद्दुःखितानां दुःसहः करुणात्मनाम् ९

शशान्वराहान्महिषान्गवयान्रुरुशल्यकान्

मेध्यानन्यांश्च विविधान्विनिघ्नन्श्रममध्यगात् १०

ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान्

कृतस्नानोचिताहारः संविवेश गतक्लमः ११

आत्मानमर्हयां चक्रे धूपालेपस्रगादिभिः

साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मनः १२

तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः

न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् १३

अन्तःपुरस्त्रियोऽपृच्छद्विमना इव वेदिषत्

अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा १४

न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः

यदि न स्याद्गृहे माता पत्नी वा पतिदेवता

व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् १५

क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे

या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे १६

रामा ऊचुः

नरनाथ न जानीमस्त्वत्प्रिया यद्व्यवस्यति

भूतले निरवस्तारे शयानां पश्य शत्रुहन् १७

नारद उवाच

पुरञ्जनः स्वमहिषीं निरीक्ष्यावधुतां भुवि

तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ १८

सान्त्वयन्श्लक्ष्णया वाचा हृदयेन विदूयता

प्रेयस्याः स्नेहसंरम्भ लिङ्गमात्मनि नाभ्यगात् १९

अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविदः

पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् २०

पुरञ्जन उवाच

नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे

कृतागःस्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते २१

परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः

बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः २२

सा त्वं मुखं सुदति सुभ्र्वनुरागभार व्रीडाविलम्बविलसद्धसितावलोकम्

नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् २३

तस्मिन्दधे दममहं तव वीरपत्नि योऽन्यत्र भूसुरकुलात्कृतकिल्बि-षस्तम्

पश्ये न वीतभयमुन्मुदितं त्रिलोक्यामन्यत्र वै मुररिपोरितरत्र दासात् २४

वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम्

पश्ये स्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्क-रागम् २५

तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य

का देवरं वशगतं कुसुमास्त्रवेग विस्रस्तपौंस्नमुशती न भजेत कृत्ये २६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने षड्विंशोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः