☰ select

अथाष्टाशीतितमोऽध्यायः

श्रीराजोवाच

देवासुरमनुष्येसु ये भजन्त्यशिवं शिवम्

प्रायस्ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् १

एतद्वेदितुमिच्छामः सन्देहोऽत्र महान्हि नः

विरुद्धशीलयोः प्रभ्वोर्विरुद्धा भजतां गतिः २

श्रीशुक उवाच

शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ३

ततो विकारा अभवन्षोडशामीषु कञ्चन

उपधावन्विभूतीनां सर्वासामश्नुते गतिम् ४

हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः

स सर्वदृगुपद्र ष्टा तं भजन्निर्गुणो भवेत् ५

निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः

शृण्वन्भगवतो धर्मानपृच्छदिदमच्युतम् ६

स आह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः

नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले ७

श्रीभगवानुवाच

यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः

ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् ८

स यदा वितथोद्योगो निर्विण्णः स्याद्धनेहया

मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रहम् ९

तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम्

विज्ञायात्मतया धीरः संसारात्परिमुच्यते १०

अतो मां सुदुराराध्यं हित्वान्यान्भजते जनः

ततस्त आशुतोषेभ्यो लब्धराज्यश्रियोद्धताः

मत्ताः प्रमत्ता वरदान्विस्मयन्त्यवजानते ११

श्रीशुक उवाच

शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः

सद्यः शापप्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः १२

अत्र चोदाहरन्तीममितिहासं पुरातनम्

वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम् १३

वृको नामासुरः पुत्रः शकुनेः पथि नारदम्

दृष्ट्वाशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः १४

स आह देवं गिरिशमुपाधावाशु सिद्ध्यसि

योऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति १५

दशास्यबाणयोस्तुष्टः स्तुवतोर्वन्दिनोरिव

ऐश्वर्यमतुलं दत्त्वा तत आप सुसङ्कटम् १६

इत्यादिष्टस्तमसुर उपाधावत्स्वगात्रतः

केदार आत्मक्रव्येण जुह्वानो ग्निमुखं हरम् १७

देवोपलब्धिमप्राप्य निर्वेदात्सप्तमेऽहनि

शिरोऽवृश्चत्सुधितिना तत्तीर्थक्लिन्नमूर्धजम् १८

तदा महाकारुणिको स धूर्जटिर्यथा वयं चाग्निरिवोत्थितोऽनलात्

निगृह्य दोर्भ्यां भुजयोर्न्यवारयत्तत्स्पर्शनाद्भूय उपस्कृताकृतिः १९

तमाह चाङ्गालमलं वृणीष्व मे यथाभिकामं वितरामि ते वरम्

प्रीयेय तोयेन नृणां प्रपद्यतामहो त्वयात्मा भृशमर्द्यते वृथा २०

देवं स वव्रे पापीयान्वरं भूतभयावहम्

यस्य यस्य करं शीर्ष्णि धास्ये स म्रियतामिति २१

तच्छ्रुत्वा भगवान्रुद्रो दुर्मना इव भारत

ॐ इति प्रहसंस्तस्मै ददेऽहेरमृतं यथा २२

स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः

स्वहस्तं धातुमारेभे सोऽबिभ्यत्स्वकृताच्छिवः २३

तेनोपसृष्टः सन्त्रस्तः पराधावन्सवेपथुः

यावदन्तं दिवो भूमेः कष्ठानामुदगादुदक् २४

अजानन्तः प्रतिविधिं तूष्णीमासन्सुरेश्वराः

ततो वैकुण्ठमगमद्भास्वरं तमसः परम् २५

यत्र नारायणः साक्षान्न्यासिनां परमो गतिः

शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः २६

तं तथा व्यसनं दृष्ट्वा भगवान्वृजिनार्दनः

दूरात्प्रत्युदियाद्भूत्वा बटुको योगमायया २७

मेखलाजिनदण्डाक्षैस्तेजसाग्निरिव ज्वलन्

अभिवादयामास च तं कुशपाणिर्विनीतवत् २८

श्रीभगवानुवाच

शाकुनेय भवान्व्यक्तं श्रान्तः किं दूरमागतः

क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक् २९

यदि नः श्रवणायालं युष्मद्व्यवसितं विभो

भण्यतां प्रायशः पुम्भिर्धृतैः स्वार्थान्समीहते ३०

श्रीशुक उवाच

एवं भगवता पृष्टो वचसामृतवर्षिणा

गतक्लमोऽब्रवीत्तस्मै यथापूर्वमनुष्ठितम् ३१

श्रीभगवानुवाच

एवं चेत्तर्हि तद्वाक्यं न वयं श्रद्दधीमहि

यो दक्षशापात्पैशाच्यं प्राप्तः प्रेतपिशाचराट् ३२

यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ

तर्ह्यङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम् ३३

यद्यसत्यं वचः शम्भोः कथञ्चिद्दानवर्षभ

तदैनं जह्यसद्वाचं न यद्वक्तानृतं पुनः ३४

इत्थं भगवतश्चित्रैर्वचोभिः स सुपेशलैः

भिन्नधीर्विस्मृतः शीर्ष्णि स्वहस्तं कुमतिर्न्यधात् ३५

अथापतद्भिन्नशिराः व्रजाहत इव क्षणात्

जयशब्दो नमःशब्दः साधुशब्दोऽभवद्दिवि ३६

मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे

देवर्षिपितृगन्धर्वा मोचितः सङ्कटाच्छिवः ३७

मुक्तं गिरिशमभ्याह भगवान्पुरुषोत्तमः

अहो देव महादेव पापोऽयं स्वेन पाप्मना ३८

हतः को नु महत्स्वीश जन्तुर्वै कृतकिल्बिषः

क्षेमी स्यात्किमु विश्वेशे कृतागस्को जगद्गुरौ ३९

य एवमव्याकृतशक्त्युदन्वतः परस्य साक्षात्परमात्मनो हरेः

गिरित्रमोक्षं कथयेच्छृणोति वा विमुच्यते संसृतिभिस्तथारिभिः ४०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुद्र मोक्षणं नामाष्टाशीतितमोऽध्यायः

×

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः