શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वाविंशोऽध्यायः

श्रीशुक उवाच

एवं विप्रकृतो राजन्बलिर्भगवतासुरः

भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः १

श्रीबलिरुवाच

यद्युत्तमश्लोक भवान्ममेरितं वचो व्यलीकं सुरवर्य मन्यते

करोम्यृतं तन्न भवेत्प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् २

बिभेमि नाहं निरयात्पदच्युतो न पाशबन्धाद्व्यसनाद्दुरत्ययात्

नैवार्थकृच्छ्राद्भवतो विनिग्रहादसाधुवादाद्भृमुद्विजे यथा ३

पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम्

यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ४

त्वं नूनमसुराणां नः परोक्षः परमो गुरुः

यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ५

यस्मिन्वैरानुबन्धेन व्यूढेन विबुधेतराः

बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ६

तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा

बद्धश्च वारुणैः पाशैर्नातिव्रीडे न च व्यथे ७

पितामहो मे भवदीयसम्मतः प्रह्राद आविष्कृतसाधुवादः

भवद्विपक्षेण विचित्रवैशसं सम्प्रापितस्त्वं परमः स्वपित्रा ८

किमात्मनानेन जहाति योऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः

किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः ९

इत्थं स निश्चित्य पितामहो महानगाधबोधो भवतः पादपद्मम्

ध्रुवं प्रपेदे ह्यकुतोभयं जनाद्भीतः स्वपक्षक्षपणस्य सत्तम १०

अथाहमप्यात्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः

इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते ११

श्रीशुक उवाच

तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः

आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः १२

तमिन्द्र सेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम्

प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं शुभगर्षभमैक्षत १३

तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत्

ननाम मूर्ध्नाश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह १४

स तत्र हासीनमुदीक्ष्य सत्पतिं हरिं सुनन्दाद्यनुगैरुपासितम्

उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः १५

श्रीप्रह्राद उवाच

त्वयैव दत्तं पदमैन्द्र मूर्जितं हृतं तदेवाद्य तथैव शोभनम्

मन्ये महानस्य कृतो ह्यनुग्रहो विभ्रंशितो यच्छ्रिय आत्ममोहनात् १६

यया हि विद्वानपि मुह्यते यतस्तत्को विचष्टे गतिमात्मनो यथा

तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे १७

श्रीशुक उवाच

तस्यानुशृण्वतो राजन्प्रह्रादस्य कृताञ्जलेः

हिरण्यगर्भो भगवानुवाच मधुसूदनम् १८

बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला

प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवाङ्मुखी नृप १९

श्रीविन्ध्यावलिरुवाच

क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः

कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः २०

श्रीब्रह्मोवाच

भूतभावन भूतेश देवदेव जगन्मय

मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् २१

कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये

निवेदितं च सर्वस्वमात्माविक्लवया धिया २२

यत्पादयोरशठधीः सलिलं प्रदाय

दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम्

अप्युत्तमां गतिमसौ भजते त्रिलोकीं

दाश्वानविक्लवमनाः कथमार्तिमृच्छेत् २३

श्रीभगवानुवाच

ब्रह्मन्यमनुगृह्णामि तद्विशो विधुनोम्यहम्

यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते २४

यदा कदाचिज्जीवात्मा संसरन्निजकर्मभिः

नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् २५

जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः

यद्यस्य न भवेत्स्तम्भस्तत्रायं मदनुग्रहः २६

मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः

सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः २७

एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः

अजैषीदजयां मायां सीदन्नपि न मुह्यति २८

क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः

ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः २९

गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः

छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ३०

एष मे प्रापितः स्थानं दुष्प्रापममरैरपि

सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ३१

तावत्सुतलमध्यास्तां विश्वकर्मविनिर्मितम्

यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः

नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ३२

इन्द्र सेन महाराज याहि भो भद्र मस्तु ते

सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ३३

न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे

त्वच्छासनातिगान्दैत्यांश्चक्रं मे सूदयिष्यति ३४

रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम्

सदा सन्निहितं वीर तत्र मां द्र क्ष्यते भवान् ३५

तत्र दानवदैत्यानां सङ्गात्ते भाव आसुरः

दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति ३६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादो नाम द्वाविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः