શ્રીમદ્‌ભાગવતપુરાણ

अथाष्टमोऽध्यायः

मैत्रेय उवाच

सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः

बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्ष्णम् १

सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्गतानां विरमाय तस्य

प्रवर्तये भागवतं पुराणं यदाह साक्षाद्भगवानृषिभ्यः २

आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्त्वम्

विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन् ३

स्वमेव धिष्ण्यं बहु मानयन्तं यद्वासुदेवाभिधमामनन्ति

प्रत्यग्धृताक्षाम्बुजकोशमीषदुन्मीलयन्तं विबुधोदयाय ४

स्वर्धुन्युदाद्रै रः! स्वजटाकलापैरुपस्पृशन्तश्चरणोपधानम्

पद्मं यदर्चन्त्यहिराजकन्याः सप्रेम नानाबलिभिर्वरार्थाः ५

मुहुर्गृणन्तो वचसानुराग स्खलत्पदेनास्य कृतानि तज्ज्ञाः

किरीटसाहस्रमणिप्रवेक प्रद्योतितोद्दामफणासहस्रम् ६

प्रोक्तं किलैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन

सनत्कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृतव्रताय ७

साङ्ख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभूतीः

जगाद सोऽस्मद्गुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च ८

प्रोवाच मह्यं स दयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम्

सोऽहं तवैतत्कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय ९

उदाप्लुतं विश्वमिदं तदासीद्यन्निद्र यामीलितदृङ्न्यमीलयत्

अहीन्द्र तल्पेऽधिशयान एकः कृतक्षणः स्वात्मरतौ निरीहः १०

सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः

उवास तस्मिन्सलिले पदे स्वे यथानलो दारुणि रुद्धवीर्यः ११

चतुर्युगानां च सहस्रमप्सु स्वपन्स्वयोदीरितया स्वशक्त्या

कालाख्ययासादितकर्मतन्त्रो लोकानपीतान्ददृशे स्वदेहे १२

तस्यार्थसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थो रजसा तनीयान्

गुणेन कालानुगतेन विद्धः सूष्यंस्तदाभिद्यत नाभिदेशात् १३

स पद्मकोशः सहसोदतिष्ठत्कालेन कर्मप्रतिबोधनेन

स्वरोचिषा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः १४

तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम्

तस्मिन्स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सोऽभूत् १५

तस्यां स चाम्भोरुहकर्णिकायामवस्थितो लोकमपश्यमानः

परिक्रमन्व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं मुखानि १६

तस्माद्युगान्तश्वसनावघूर्ण जलोर्मिचक्रात्सलिलाद्विरूढम्

उपाश्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः १७

क एष योऽसावहमब्जपृष्ठ एतत्कुतो वाब्जमनन्यदप्सु

अस्ति ह्यधस्तादिह किञ्चनैतदधिष्ठितं यत्र सता नु भाव्यम् १८

स इत्थमुद्वीक्ष्य तदब्जनाल नाडीभिरन्तर्जलमाविवेश

नार्वाग्गतस्तत्खरनालनाल नाभिं विचिन्वंस्तदविन्दताजः १९

तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभूत्सुमहांस्त्रिणेइः!

यो देहभाजां भयमीरयाणः परिक्षिणोत्यायुरजस्य हेतिः २०

ततो निवृत्तोऽप्रतिलब्धकामः स्वधिष्ण्यमासाद्य पुनः स देवः

शनैर्जितश्वासनिवृत्तचित्तो न्यषीददारूढसमाधियोगः २१

कालेन सोऽजः पुरुषायुषाभि प्रवृत्तयोगेन विरूढबोधः

स्वयं तदन्तर्हृदयेऽवभातमपश्यतापश्यत यन्न पूर्वम् २२

मृणालगौरायतशेषभोग पर्यङ्क एकं पुरुषं शयानम्

फणातपत्रायुतमूर्धरत्न द्युभिर्हतध्वान्तयुगान्ततोये २३

प्रेक्षां क्षिपन्तं हरितोपलाद्रेः! सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्नः

रत्नोदधारौषधिसौमनस्य वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः २४

आयामतो विस्तरतः स्वमान देहेन लोकत्रयसङ्ग्रहेण

विचित्रदिव्याभरणांशुकानां कृतश्रियापाश्रितवेषदेहम् २५

पुंसां स्वकामाय विविक्तमार्गैरभ्यर्चतां कामदुघाङ्घ्रिपद्मम्

प्रदर्शयन्तं कृपया नखेन्दु मयूखभिन्नाङ्गुलिचारुपत्रम् २६

मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन

शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा २७

कदम्बकिञ्जल्कपिशङ्गवाससा स्वलङ्कृतं मेखलया नितम्बे

हारेण चानन्तधनेन वत्स श्रीवत्सवक्षःस्थलवल्लभेन २८

परार्ध्यकेयूरमणिप्रवेक पर्यस्तदोर्दण्डसहस्रशाखम्

अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्र महीन्द्र भोगैरधिवीतवल्शम् २९

चराचरौको भगवन्महीध्रमहीन्द्र बन्धुं सलिलोपगूढम्

किरीटसाहस्रहिरण्यशृङ्गमाविर्भवत्कौस्तुभरत्नगर्भम् ३०

निवीतमाम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम्

सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम् ३१

तर्ह्येव तन्नाभिसरःसरोजमात्मानमम्भः श्वसनं वियच्च

ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः ३२

स कर्मबीजं रजसोपरक्तः प्रजाः सिसृक्षन्नियदेव दृष्ट्वा

अस्तौद्विसर्गाभिमुखस्तमीड्यमव्यक्तवर्त्मन्यभिवेशितात्मा ३३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे अष्टमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः