શ્રીમદ્‌ભાગવતપુરાણ

अथ दशमोऽध्यायः

विदुर उवाच

अन्तर्हिते भगवति ब्रह्मा लोकपितामहः

प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः १

ये च मे भगवन्पृष्टास्त्वय्यर्था बहुवित्तम

तान्वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान् २

सूत उवाच

एवं सञ्चोदितस्तेन क्षत्त्रा कौषारविर्मुनिः

प्रीतः प्रत्याह तान्प्रश्नान्हृदिस्थानथ भार्गव ३

मैत्रेय उवाच

विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः

आत्मन्यात्मानमावेश्य यथाह भगवानजः ४

तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठितः

पद्ममम्भश्च तत्काल कृतवीर्येण कम्पितम् ५

तपसा ह्येधमानेन विद्यया चात्मसंस्थया

विवृद्धविज्ञानबलो न्यपाद्वायुं सहाम्भसा ६

तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम्

अनेन लोकान्प्राग्लीनान्कल्पितास्मीत्यचिन्तयत् ७

पद्मकोशं तदाविश्य भगवत्कर्मचोदितः

एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ८

एतावाञ्जीवलोकस्य संस्थाभेदः समाहृतः

धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ ९

विदुर उवाच

यथात्थ बहुरूपस्य हरेरद्भुतकर्मणः

कालाख्यं लक्षणं ब्रह्मन्यथा वर्णय नः प्रभो १०

मैत्रेय उवाच

गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः

पुरुषस्तदुपादानमात्मानं लीलयासृजत् ११

विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया

ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना १२

यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम्

सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः १३

कालद्र व्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः

आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः १४

द्वितीयस्त्वहमो यत्र द्र व्यज्ञानक्रियोदयः

भूतसर्गस्तृतीयस्तु तन्मात्रो द्र व्यशक्तिमान् १५

चतुर्थ ऐन्द्रि यः सर्गो यस्तु ज्ञानक्रियात्मकः

वैकारिको देवसर्गः पञ्चमो यन्मयं मनः १६

षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः

षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु १७

रजोभाजो भगवतो लीलेयं हरिमेधसः

सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः १८

वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः

उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः १९

तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः

अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः २०

गौरजो महिषः कृष्णः सूकरो गवयो रुरुः

द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम २१

खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा

एते चैकशफाः क्षत्तः शृणु पञ्चनखान्पशून् २२

श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ

सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः २३

कङ्कगृध्रबकश्येन भासभल्लूकबर्हिणः

हंससारसचक्राह्व काकोलूकादयः खगाः २४

अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम्

रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः २५

वैकृतास्त्रय एवैते देवसर्गश्च सत्तम

वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः २६

देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः

गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः २७

भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः

दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः २८

अतः परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च

एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः

सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना २९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे दशमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः