શ્રીમદ્‌ભાગવતપુરાણ

अथ द्वात्रिंशोऽध्यायः

श्रीशुक उवाच

इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा

रुरुदुः सुस्वरं राजन्कृष्णदर्शनलालसाः १

तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः

पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः २

तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः

उत्तस्थुर्युगपत्सर्वास्तन्वः प्राणमिवागतम् ३

काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा

काचिद्दधार तद्बाहुमंसे चन्दनभूषितम् ४

काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम्

एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ५

एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला

घ्नन्तीवैक्षत्कटाक्षेपैः सन्दष्टदशनच्छदा ६

अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम्

आपीतमपि नातृप्यत्सन्तस्तच्चरणं यथा ७

तं काचिन्नेत्ररन्ध्रेण हृदि कृत्वा निमील्य च

पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता ८

सर्वास्ताः केशवालोक परमोत्सवनिर्वृताः

जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ९

ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः

व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा १०

ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः

विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम् ११

शरच्चन्द्रा शुं!सन्दोह ध्वस्तदोषातमः शिवम्

कृष्णाया हस्ततरला चितकोमलवालुकम् १२

तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः

स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीकॢपन्नासनमात्मबन्धवे १३

तत्रोपविष्टो भगवान्स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः

चकास गोपीपरिषद्गतोऽर्चितस्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् १४

सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा

संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे १५

श्रीगोप्य ऊचुः

भजतोऽनुभजन्त्येक एक एतद्विपर्ययम्

नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः १६

श्रीभगवानुवाच

मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते

न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा १७

भजन्त्यभजतो ये वै करुणाः पितरौ यथा

धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः १८

भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः

आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः १९

नाहं तु सख्यो भजतोऽपि जन्तून्भजाम्यमीषामनुवृत्तिवृत्तये

यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद २०

एवं मदर्थोज्झितलोकवेद स्वानाम्हि वो मय्यनुवृत्तयेऽबलाः

मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत्प्रियं प्रियाः २१

न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः

या माभजन्दुर्जरगेहशृङ्खलाः संवृश्च्य तद्वः प्रतियातु साधुना २२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः

 

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः